________________
२९२
अनुयोगद्वार - चूलिकासूत्रं
तेन जह सुप्पसन होइ तयं तं तहा कुञ्जा ॥२॥ आगारिंगियकुसलं जइ सेयं वायसं वए पुञ्जा । तह वि य से नवि कूडे विरहम्मि य कारणं पुच्छे ॥३॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहई ? | संपाइयवं सीसो जह तह सव्वत्थ कायव्वं ॥४॥ इत्यादि,
भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वं, शेषास्तु नामस्थापनाद्रव्याद्युपक्रमा अनर्थका एव, नैतदेवं, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थमेवाशनपानवस्त्रपात्रौधादिद्रव्यं व्याख्यास्थानादिक्षेत्रं प्रव्रज्यालग्नादिकालमुपक्रमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपि सार्थका एव, नामस्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽभ्युपक्रमसाम्यादत्रोक्तौ, अथवा सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोशपयोक्ष्यन्ते उपक्रमसाम्याच्चात्रोक्ता इत्यदोष: ॥
तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमः, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह
मू. (८०) अहवा उवक्कमे छव्विहे पन्नत्ते, तंजहा - आनुपुव्वी १ नामं २ पमाणं ३ वत्तव्वया ४ अत्थाहिगारे ५ समोआरे ६ ।
वृ. अथवा अनन्तरं यः प्रशस्त भावोपक्रमः उक्तः स हि द्विविधो दृष्टव्यो- गुरुभावोपक्रमः शास्त्रभावोपक्रमश्च, शास्त्रलक्षणो भाव: शास्त्र भावस्तस्योपक्रमः शास्त्रभावोपक्रमः, तत्रैकेन गुरुभावोपक्रमलक्षणेन प्रकारेणोक्तः, अथ द्वितीयेन शास्त्र भावोपक्रमलक्षणेन प्रकारान्तरेण तमभिधित्सुराह - 'अहवा उवक्कमे' इत्यादि, ' अथवे 'ति पक्षान्तरसूचकः उपक्रमः, प्रथमपातनापक्षे शास्त्रीयोपक्रमे द्वितीयपातनापक्षे तु शास्त्रो भावोपक्रमः, 'षड्विधः ' षट्प्रकारः प्रज्ञप्तः, तद्यथा - आनुपूर्वी १ नाम २ प्रमाणं ३ वक्तव्यता ४ अर्थाधिकारः ५ समवतारः ६ । एतेषां तु शब्दव्युत्पत्त्यादिस्वरूपं यथावसरं पुरस्तादेव वक्ष्यामः ।
तत्राऽऽनुपूर्वी स्वरूपणार्थमाह
मू. (८१ ) से किं तं आनुपुव्वी ?, २ दसविहा पत्रत्ता, तंजहा - नामानुपुव्वी १ ठवणानुपुव्वी २ दव्वानुपुव्वी ३ खेत्तानुपुव्वी ४ कालानुपुव्वी ५ उक्कित्तणानुपुव्वी ६ गणणानुपुव्वी ७ संठाणामुपुव्वी ८ सामाआरीआनुपुव्वी ९ भावानुपुव्वी १०
वृ. अथ किं तदानुपूर्वीवस्त्विति प्रश्नार्थः । अत्र निर्वचनम् -'आनुपुव्वी दसविहे' त्यादि, इह हि पूर्व प्रथममादिरिति पर्यायाः, पूर्वस्य अनु-पश्चादनुपूर्वं, 'तस्य भाव' इति यण्प्रत्यये स्त्रियामीकारे चानुपूर्वी अनुक्रमोऽनुपरिपाटीति पर्यायाः, त्र्यादिवस्तुसंहतिरित्यर्थः । इयमानुपूर्वी 'दशविधा' दशप्रकारा प्रज्ञप्ता, तद्यथा - नामानुपूर्वी स्थापनानुपूर्वी द्रव्यानुपूर्वी क्षेत्रानुपूर्वी कालानुपूर्वी उत्कीर्तनानुपूर्वी गणाननुपूर्वी संस्थानानुपूर्वी सामचार्यानुपूर्वी भावानुपूर्वीति ।
मू. ( ८२ ) नामठवणाओ गयाओ, से किं तं दव्वानुपुव्वी ?, २ दुविहा पन्नत्ता, तंजा आगमओ न नोआगमओ अ। से किं तं दव्वानुपुव्वी ?, २ जस्स नं आनुपुव्वित्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव नो अनुप्पेहाए, कम्हा?, अनुवओगो दव्वमितिकट्टं, नेगमस्स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International