________________
मूलं-७९
२९१ क्रान्तजामातृभावा हृष्टा दुहितरं प्रत्यवादीत्-पुत्रिके ! यद् रोचते तत् त्वदीयगृहे कुरु त्वं, न तवावचनकरो भर्ता भविष्यतीति ।
द्वितीयाऽपि तथैव शिक्षिता, तयाऽपि च तथैव स्वभा शिरसि प्रहतः, केवलमसौ नैतच्छिष्टानां युज्यत इत्यादि किञ्चित् कोपं कृत्वा निवर्तितः, अमुंच व्यतिकरंसा मात्र निवेदितवती, हृष्टा पुत्री प्रत्यवादीत्-पुत्रिके ! त्वद्भर्ता क्षणमेकं रुषित्वा स्थास्यति । ___ एवं च तृतीययाऽपि प्रहतः, केवलममुना समुच्छलदतुच्छकोपेन उक्तम्-कुलीना त्वं?, यैवं शिष्यजनानुचित्तं चेष्टसे इत्याद्यभिधाय गाढं कुट्टयित्वा गृहानिष्काशिता, तया चाऽऽगत्य सर्वं मात्रे निवेदितं, तयाऽपि विज्ञातजामातृभावया गत्वा तत्समीपे वत्स! कुलस्थितिरस्माकमियं यदुत प्रथमसमागमे वध्वा वरस्येत्थं कर्तव्यमित्यादि किञ्चिदभिधाय कथमप्यनुनयितोऽसौ, दुहिता च प्रोक्ता-वत्से ! दुराराधस्ते भर्ता भविष्यति, परमदेवतावदप्रमत्तया समाराधनीय इति ।
तथैकस्मिन्नगरे चतुःषष्ठिविज्ञानसहिता गणिका, तया च पराभिप्रायपरिज्ञानार्थं रतिभवनभित्तिषु स्वस्वव्यापारं कुर्वत्यः सर्वा अपि राजपुत्रादिजातयश्चित्रकर्मणि लेखिताः, तत्र च यः कश्चिद्र राजपुत्रादिराच्छति स तत्रैव कृताभ्यासतया स्वकीयस्वकीयव्यापारमेव बाढं प्रशंसति, ततोऽसौ विलासिनी राजपुत्रादीनामन्यतरत्वेन तं विनिश्चित्य यथौचित्येनोपचरति, आनुकूल्येनोपचरिताश्च भुजङ्गाः प्रचुरतरमर्थजातं तस्यै प्रयच्छन्तीति। तथैकस्मिन्नगरेकश्चिद्राजा अमात्येन सहाश्ववाहनिकायां निर्गतः, तत्र च पथिगच्छता राजतुरङ्गमेन कुंत्रचित् खिलप्रदेशे प्रश्रवणमकारि, तच्च तत्प्रदेशे पृथिव्याः स्थिरत्वेन बद्धच्छिल्लरकं चिरेणाप्यशुष्कं व्यावर्तमानो राजा तथैव व्यवस्थितमद्राक्षीत्, चिरावस्थायिजलं शोभनमत्र प्रदेशे तडागं भवतीति चिन्तयश्चिरमवलोकितवाँश्च, तदिङ्गिताकारपरिज्ञानकुशलतया चामात्येन राज्ञाऽभणितेनापिविदिततदभिप्रायेण खानितं तत्र प्रदेशे महासरः, तत्पाल्यां च रोपिताः सर्वर्तुकपुष्पफलसमृद्धयो नानाजातीयतरुनिवहाः, अन्यदा च तेनैव प्रदेशे गच्छता भूपेन दृष्टं, पृष्टं चाहो ! मानससरोवद्रमणीयकं केनेदं खानितम्?, अमात्यो-जगाद-भवद्भिरेव, राजा सविस्मयं प्राह-कदा कश्च मयैतत्करणाय निरूपति इति, अतः सचिवो यथावृत्तं सर्वं कथितवान्, अहो ! परचित्तोपलक्षकत्वममात्वस्येति विचिन्त्य परितुष्टो राजातस्य वृत्तिं वर्द्धयामासेति।
तदेवमित्या(वमा)दिकः संसारफलाऽपरोऽप्यप्रशस्तभावोपक्रमः । अथ प्रशस्तभावोपक्रममाह-'पसत्थो गुरुमाईणं'ति, तत्र श्रुतादिनिमित्तं गुर्वादीनां यद्भावोपक्रमणं स प्रशस्तभावोपक्रमः । आह-नन्वनुयोगद्वारविचारोऽत्र प्रकान्तः, अनुयोगश्च व्याख्यानम्, ततश्च यदेव तदुपकारि किञ्चित् तदेव वक्तव्यं भवति, गुरुभावोपक्रमस्त्वप्रस्तुतो, व्याख्यानानुपकारित्वात, तदेतदयुक्तं, गुरुभावोपक्रमस्यैव मुख्यव्याख्याङ्गत्वात्, उक्तं च
"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरण हितकाक्षिणा भाव्यम्।।" (अन्यच्च)
"जुत्तं गुरुमणगहणं नाऊणं तयं जहट्ठियं तत्तो। जइ होइ सुप्पसन्नं तह जहयव्वं गुणत्थीहि ।।१।। गुरुचित्तायत्ताइं वक्खाणंगाइ जेण सव्वाइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org