________________
मूलं - ८४.
पुव्वीओ, दुपएसिआई अवत्तव्ययाई, से तं नेमववहारणं अट्ठपयपरूवणया,
वृ. अथ कैयं नैगमव्यवहारयोः सम्मता अर्थपदप्ररूपणतेति, अत्रोत्तरमाह-'नेग़मववहारण 'मित्यादि, तत्र त्रयः प्रदेशाः - परमाणुत्रयलक्षणा यत्र स्कन्धे सा आनुपूर्वीत्युच्यते, एवं यावदनन्ता अणवो यत्र सोऽनन्ताणुकः सोऽप्यानुपूर्वीत्युच्यते, 'परमाणुपोग्गले 'त्ति एक: परमाणुः परमाण्वन्तरासंसक्तो ऽनानुपूर्वीत्यभिधीयते, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः स्कन्धोऽवक्तव्यकमित्याख्यायते, बहवस्त्रिपदेशिकादयः स्कन्धा आनुपूर्व्यो, बहवश्चैकाकिपरमाणवो नानुपूर्व्या, बहूनि च द्वयणुकस्कन्धद्रव्याण्यवक्तव्यकानि आनुपूर्व्या प्रकान्तायामनानुपूर्व्यवक्तव्यकयोः प्ररूपणमसङ्गतमिति चेत्, न, तत्प्रतिपक्षत्वात्तयोरपि प्ररूपणीयत्वात्, प्रतिपक्षपरिज्ञाने च प्रस्तुतवस्तुनः सुखावसेयत्वादिति भावार्थ: ।
इहाऽऽनुपूर्वी अनुपरिपाटिरिति पूर्वमुक्तं, सा च यतैवादिमध्यान्तलक्षणः सम्पूर्णो गणानुक्रमोऽस्ति तत्रैवोपपद्यते, नान्यत्र, एतच्च त्रिपदेशिकादिस्कन्धेष्वेव, तथाहि यस्मात् परमस्ति न पूर्वं स आदिः, यस्मात पूर्वमस्ति न परं सोऽन्तः तयोश्चान्तरं मध्यमुच्यते, अयं च संपूर्णो गणनानुक्रमस्त्रिप्रदेशादिस्कन्ध एव, न परमाणौ तस्यैकद्रव्यत्वेनादिमध्यान्तव्यवहाराभावाद्, अत एवायमनानुपूर्वीत्वेनोक्तो, नापि द्व्यणुकस्कन्धः, तत्रापि मध्याभावेन सम्पूर्णगणनानुक्रमाभावाद्, अत्राऽऽह - ननु पूर्वस्यानु पश्चादनुपूर्व तस्य भाव आनुपूर्वीति पूर्व व्याख्यातम्, एतच्च द्व्यणुकस्कन्धेऽपि घटत एव, परमाणुद्वयस्यापि परस्परापेक्षया पूर्वपश्चाद्भावस्य विद्यमानत्वात्, ततः सम्पूर्णगणनानुक्रमाभावेऽपि कस्मादयमप्यानुपूर्वी न भवति ?, नैतदेवं, यतो यथा मेर्वादिके कचित् पदार्थे मध्येऽवधौ व्यवस्थापिते लोके पूर्वादिविभागः प्रसिद्धस्तथा यद्यत्रापि स्यात्तदा स्यादप्येवं, न चैवमत्रास्ति, मध्येऽवधिभूतस्य कस्यचिदभावतोऽसाङ्कर्येण पूर्वपश्चाद्भावस्यासिद्धत्वात्, यद्येवं परमाणुवद् द्व्यणुस्कन्धोऽप्यनानुपूर्वीत्वेन कस्मान्नोच्यते ?, सत्यं, किन्तु परस्परापेक्षया पूर्वपश्चाद्भावमात्रस्य सद्भावादेवमप्यभिधातुमशक्योऽसौ तस्मादानुपूर्व्यनानुपूर्वीप्रकाराभ्यां वक्तुशक्यत्वादवक्तव्यकमेव द्व्यणुस्कन्धः, तस्माद्वयवस्थितमिदम्-आदिमध्यान्तभावेनाबधिभूतं मध्यवर्तिनमपेक्ष्यासाङ्कर्येण मुख्यस्य पूर्वपश्चाद्भावस्य सद्भावत्, त्रिप्रदेशादिस्कन्ध एवाऽऽनुपूर्वी, परमाणुस्तूक्तयुक्त्याऽनानुपूर्वी, द्वयणुकोऽवक्तव्यकः, इत्येवं संज्ञासंज्ञिसम्बन्धकथनस्य सिद्धत्वात्, सत्यं, किन्त्वानुपूर्व्यादिद्रव्याणां प्रतिभेदमनन्तव्यक्तिख्यापनार्थो नैगमव्यवहारयोरित्थंभूताभ्युपगमप्रदर्शनार्थश्च बहुत्वनिर्देश इत्यदोषः ।
२९५
Jain Education International
--
अत्राऽऽह - नन्वनानुपूर्वीद्रव्यमेकेन परमाणुना निष्पद्यते, अवक्तकद्रव्यं परमाणुद्वयेन, आनुपूर्वीद्रव्यं तु जघन्यतोऽपि परमाणुत्रयेणेति, इत्थं द्रव्यवृद्ध्या पूर्वानुपूर्वीक्रममाश्रित्य प्रथममनानुपूर्वी ततोऽवक्तव्यकं ततश्चाऽऽनुपूर्वीत्येयं निर्देशो, युज्यते, पश्चानुपूर्वीक्रमाश्रयेण तु व्यत्ययने युक्तः, तत् कथं क्रमद्वयमुल्लंध्यान्यथा निर्देशः कृतः ?, सत्यमेतत् किन्त्वनानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनार्थः, यदि वा त्र्यणुकचतुरणुकादीन्यानुपूर्वीद्रव्याण्यनानुपर्व्यवक्तव्यकद्रव्येभ्यो बहूनि तेभ्योऽनानुपूर्वीद्रव्याण्यल्पानि तेभ्योऽप्यवक्तव्यकद्रव्याण्यल्पतराणीत्यत्रैव वक्ष्यते, द्रव्यहान्या पूर्वानुपूर्वीक्रमनिर्देश एवायमित्यलं विस्तरेण । 'से त 'मित्यादि
For Private & Personal Use Only
www.jainelibrary.org