SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८८ अनुयोगद्वार-चूलिकासूत्रं क्रमः, तत्र द्विपदानां नटनर्तकादीनां घृताधुपयोगेन (यद्) बलवर्णादिकरणं कर्णस्कन्धवर्धनादिक्रिया वा स परिकर्मणि सचित्तद्रव्योपक्रमः । द्विविधमप्येतमुपक्रमं विभणिषुराह मू.(७२) से किंतंदुपए उवक्कमे?, २ नडाणं नट्टाणं जल्लाणं मल्लाणं मुट्ठियाणं वेलंबगाणं कहगाणं पवगाणं लासगाणं आइक्खगणं लंखाणं मंखाणं तूणइलाणं तुंबवीणियाणं कावोयाणं, मागहाणं से तंदुपए उवक्कमे। वृ. अत्र निर्वचनम्-'दुपयाणं नडाण'मित्यादि, तत्र नाटकानां नाटयितारो नटास्तेषां, 'नट्टाणं'ति नृत्यविधायिनो नर्तकास्तेषां, 'जल्लाणं'ति जल्ला-वरत्राखेलकास्तेषां, राजस्तोत्रपाठकानामित्यन्ये, 'मल्लाणं'ति मल्ला:-प्रतीतास्तेषां, 'मुट्ठियाणं'ति मौष्टिका ये मुंष्टिभिः प्रहरन्ति मल्लविशेषा एव तेषां 'वेलबंगाणं'ति विडम्बका-विदूषका नानावेषादिकारिण इत्यर्थः तेषां, 'कहगाणं'ति कथकानां-प्रतीतानां 'पवगाणं'ति प्लवका ये उत्प्लवन्ते-गादिकं झम्पाभिर्लङ्घयन्ति नद्यादिकं वा तरन्ति तेषां, 'लासगाणं'ति लासका ये रासकान् गायन्ति तेषां, जयशब्दप्रयोक्तृणां वा भाण्डानामित्यर्थः, 'आइक्खगाणं'ति ये शुभाशुभमाख्यान्ति ते आख्यायकास्तेषां, 'लंखाणं'ति ये महावंशाग्रमारोहन्ति ते लक्षास्तेषां, 'मंखाणं'ति ये चित्रपटादिहस्ता भिक्षां चरन्ति ते मङ्खास्तेषां, 'तूणइल्लाणं'ति तूणाभिधानावाद्यविशेषवतां, तुंबवीनियाणं'ति वीणावादकानां, 'कावोयाणं'ति कावडिवाहकानां, 'मागहाणं'तिमङ्गलपाठकानाम्, एषां, सर्वेषामपि यघृताधुपयोगेन बलवर्णादिकरणं कर्णस्कन्धवर्द्धनादिक्रिया वा सपरिकर्मणि सचित्तद्रव्योपक्रमः, यस्तु खङ्गादिभिरेषां नाश एवोपक्रम्यते-संपाद्यते स वस्तुनाशे सचित्तद्रव्योपक्रम इति वाक्यशेषः। ___ अन्ये तु शास्त्रगन्धर्वनृत्यादिकलासम्पादनमपि परिकर्मणि द्रव्यापक्रम इति व्याचक्षते, एतच्चायुक्तं, विज्ञानविशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, अथवा यद्यात्मद्रव्यसंस्कारमात्रापेक्षया शरीरवर्णादिकरणवदित्थमुच्यते तर्खेतदप्यदुष्यमेवेति। से त'मित्यादि निगमनम्। अथ चतुष्पदानां द्विविधमप्युपक्रमं बिभणिषुराह मू. (७३)से किं तं चउप्पए उवक्कमो?, २ चउप्पयाणं आसाणं हत्थीणं इच्चाइ, से तं चउप्पए उवक्कमो। वृ.अत्र निर्वचनम्-'चउप्पयाणं आसाणं हत्थीण'मित्यादि, अश्वादयः प्रतीता एव, तेषां शिक्षागुणविशेषकरणं परिकर्मणि खङ्गादिभिस्त्वेषां नाशोपक्रमणं वस्तुनाशे, सचित्तद्रव्योपक्रम इतीहापि वाक्यशेषः । ‘से त'मित्यादि निगमनम्। अथापदानां द्विविधमप्युपक्रमं बिभणिषुराह.. मू. (७४) से किं तं अपए उवक्कमे?, २ अपयाणं अंबाणं अंबाडगाणं इच्चाइ, से तं अपओवक्कमे, से तं सचित्तदव्वोवक्कमे। वृ. अत्र निर्वचनम् - 'अपयाणं अंबाणं अंबाडगाण'मित्यादि, इहाऽऽम्रादयो देशप्रतीता एव, नवरं चाराणं ति येषु चारकुलिका उत्पद्यन्ते ते चारवृक्षाः, आम्रादिशब्दैश्च वृक्षास्तत्फलानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy