SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ मूलं - ७४ २८९ वा गृह्यन्ते, तत्र वृक्षाणां वृक्षायुर्वेदोपदेशाद्वार्द्धक्यादिगुणापादनं तत्फलानां तु गर्तप्रेक्षेपकोद्रवपलालस्थगनादिना आश्वेव पाकादिकरणं परिकर्मणि शस्त्रादिभिस्तु मूलत एव विनाशनं वस्तुनाशे, सचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से त' मित्यादि निगमनद्वयम् । अथाचित्तद्रव्योपक्रमं विवक्षुराह मू. (७५) से किं तं अचित्तदव्वोवक्कमे ?, २ खंडाईणं गुडाईणं मच्छंडीणं, से तं अचित्तदव्वोवक्कमे । वृ. 'अचित्तदव्वोवक्कमे 'इत्यादि, खण्डादयः - प्रतीता एव, नवरं 'मच्छंडी' खण्डशर्करा एतेषां खण्डाद्यचित्तद्रव्याणामुपायविशेषतो माधुर्यादिगुणविशेषकरणं परिकर्मण सर्वथा विनाशकरणं वस्तुनाशे, अचित्तद्रव्योपक्रम इत्यत्रापि वाक्यशेषः । 'से त'मित्यादि निगमन् । अथ मिश्रद्रव्योपक्रममाह मू. (७६ ) से किं तं मीसए दव्वोवक्कमो ?, २ से चेव थासग आयंसगाइमंडिए आसाइ, से तं मीस दव्वोवक्कमे, से तं जाणयसरीरभविसरीरवइरित्ते दव्वोवक्कमे से तं नोआगमओ दव्वोवक्कमे, से तं. दव्वोवक्कमे - वृ. स्थासकोऽश्वाभरणविशेषः, आदर्शस्तु वृषभादिग्रीवाभरणं, आदिशब्दात् कुंकुमादिपरिग्रहः । ततश्च तेषामश्वादीनामेडकान्तानां कुंकुमादिभिर्मण्डितानां स्थासकादिभिस्तु विभूषितानां यच्छिक्षादिगुणविशेषकरणं खड्मादिभिर्विनाशो वा स मिश्रद्रव्योपक्रम इति शेषः । अश्वादीनां सचेतनत्वात् स्थासकादीनामचेतनत्वात् मिश्रद्रव्यत्वमिह भावनीयम् । अत्र च संक्षिप्ततरा अपि वाचनाविशेषा दृश्यन्ते, तेऽप्युक्तानुसारेण भावनीयाः । 'से त'मित्यादि निगमनचतुष्टयम् । उक्तो द्रव्योपक्रमः । इतः क्षेत्रोपक्रममभिधित्सुराह मू. (७७) से किं तं खेत्तोवक्कमे ?, २ जण्णं हलकुलआईहिं खेत्ताई उवक्कमिज्जति, से तं खेत्तोवक्कमे । वृ. क्षेत्रस्योपक्रम: - परिकर्मविनाशकरणं क्षेत्रोपक्रमः, स क इत्याह- 'खेत्तोवक्कमे जं णं हलकुलिआईहि खेत्ताइं उवक्कमिज्जंति'त्ति तत्र हलं - प्रतीतम् अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकं, 'कुलिकं' लघुतरं काष्ठं तृणादिच्छेदार्थं यत् क्षेत्रे वाह्यते तत् मरुमण्डलादिप्रसिद्धं कुलिकमुच्यते, ततश्च यदत्र हलकुलिकादिभिः क्षेत्राण्युपक्रम्यन्ते - बीजवपनादियोग्यतामानीयन्ते स परिकर्मणि क्षेत्रोपक्रमः, आदिशब्दाद्गजेन्द्रबन्धनादिभिः, क्षेत्राण्युपक्रम्यन्ते विनाश्यते स वस्तुनाशे क्षेत्रोपक्रमः, गजेन्द्रमूत्रपुरीषादिदग्धेषु ही क्षेत्रेषु बीजानामप्ररोहणाद् विनष्टानि क्षेत्राणि इति व्यपदिश्यन्ते । आह-यद्येवं क्षेत्रगतपृथिव्यादिद्रव्याणामेव एतौ परिकर्मविनाशौ, इत्थं च द्रव्योपक्रम एवायं कथं क्षेत्रोपक्रम ? इति, सत्यं, किन्तु क्षेत्रमाकाश तस्य चामूर्तत्वात् मुख्यतयोपक्रमो न संभवति, किन्तु तदाधेयद्रव्याणां पृथिव्यादीनां य उपक्रमः स क्षेत्रेऽपि उपचर्ते, दृश्यते च आधेयधर्मोपचार आधारे, यथा मञ्चाः क्रोशन्ति, उक्तं च "खित्तमरूवं निच्चं न तस्य परिकम्मणं न य विनासो । आहेयगयवसेण उकरणविणासोवयारो ऽत्थ ॥ " 30/19 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy