________________
-
-
मूलं-६९
२८७ न्यतोऽर्थः करणादिकारकवाच्यत्वेन विवक्ष्यते तथापि न दोषः।।
एवं निक्षेपणं-शास्त्रादेर्नामस्थापनादिभेदेय॑सन-व्यवस्थापन निक्षेपः निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यते अनेनास्मिनस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव । एवमनुगमनंसूतस्यानुकूलमर्थकथनमनुगमः, अथवा अनुगम्यते-व्याख्याययते सूत्रमनेनास्मिन्न-स्मादिति वाऽनुगमः, वाच्यार्थविवक्षा तथैव। एवं नयनं नया नीयते-परिच्छद्यते अनेनास्मिन्न-स्मादिति वा नयः, सर्वत्रानन्तधर्माध्यसिते वस्तुन्येकांशग्राहको बोध इत्यर्थः । अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः, नामादिभेदैनिक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः, अनुगम्यमानमेव च नयेविचार्यते नान्यथेति तदनन्तरं नय इति यथाक्तक्रमेणोपन्यासः फलवानिति।
तत्रोपक्रमो द्विधाः शास्त्रीय-इतरश्च लोकप्रसिद्धः, तत्रेतराभिधित्सया प्राह
मू.(७०)से किंतं उवक्कमे?, २ छविहे पन्नत्ते, तंजहा-नामोवक्कमे ठवणोवक्कमे दव्वोवक्कमे खेत्तोवक्कमे कालोवक्कमे भावोवक्कमे, नामठवणाओ गयाओ, से किं तंदव्वोवक्कमे?, २ दुविहे पन्नत्ते, तंजहा-आगमओ अ नोआगमओ अ, जाव जाणगसरीरभविअसरीरवइरिते दव्वोवक्कमे तिविहे पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसए।
वृ. उवक्कमे छव्विहे पन्नत्ते' इत्यादि, अत्र क्वचिदेवं दृश्यते-'उवक्कमे दुविहे पन्नत्ते' इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, 'अहवा उवक्कमे छव्विहे पन्नत्ते' इत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात्, यदि शास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात्_ 'से किं तं सत्थोवक्कमे?.सत्थोवक्कमे छव्विहे पन्नत्ते' इत्यादि. न चैवं, तस्मान्नेह सत्रे द्वैविध्यप्रतिज्ञा किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण, प्रकृतं प्रस्तुमः-तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्याऽपि द्रव्यावश्यकवदेव यावत् ‘से कि तं जाणयसरीरभविअसरीरवइरित्ते दव्वोवक्कमे?' इत्यादि,
तत्र द्रव्यस्य-नटादेरुपक्रमणं-कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायाविशेषतः संयोजनं द्रव्योपक्रमः अथवा द्रव्यथ-घृतादिना द्रव्येभूम्यादो द्रव्यतः-घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति । स च त्रिविधः प्रज्ञप्तः, तद्यथासचित्तद्रव्यविषयः, सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयवस्तु मिश्रः, द्रव्योपक्रम इति वर्तते।
मू.(७१) से किंतं सचित्ते दव्वोवक्कमे?, २तिविहे पन्नत्ते, तंजहा-दुपए चउप्पए अपए, एक्किक्के पुण दुविहे पन्नत्ते तंजहा-परिक्कमे अ वत्थुविनासे ।
वृ. तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा-द्विपदानां-नटनर्तकादीनां चतुष्पदानाम्अश्वहस्त्यादीनाम् अपदानाम्-आम्रादीनां, तत्रैकैकः पुनरपि द्विधा-परिकर्मणि वस्तुविनाशे च, तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म, तत्र परिकर्मणि-परिकर्मविषयो द्रव्योपक्रमः, यदा तु वस्तुनो विनाश एवोपायविशेषेरुपक्रम्यते तदा वस्तुनाशविषयो द्रव्योप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org