________________
२८६
अनुयोगद्वार - चूलिकासूत्रं
शास्त्रनाम पूर्वं व्याख्यातं तच्च सान्वर्थं, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवति, एवमात्राप्यावश्यक श्रुतस्कन्ध इति, सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वत्राभिधास्यत इति समुदायार्थः प्रतिपादितो भवति, अत ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्तयिष्यामि' भणिष्यामीति गाथार्थः । तत्कीर्तनार्थमेवाऽऽह
मू. (६९) तंजहा- सामाइअं चडवीसत्थओ वंदयणं पडिक्कमणं काउस्सग्गो पच्चक्खाणं । -तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अनुओगदारा भवंति, तंजहा-उवक्कमे १ निक्खेवे २ अनुगमे ३ नए ४ ।
वृ. तद्यथा - सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायोत्सर्ग प्रत्याख्यानम्। ‘तत्र’ तेषु अन्तरोद्दिष्टेषु षट्सु अध्ययनेषु मध्ये 'प्रथमम्' आद्यमध्ययनं सामायिकम्, आद्युपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वात्, उक्तं च
"सामायिकं गुणानामाधारः स्वमिव सर्वभावानाम् । न हि सामायिकहीनाश्चरणादिगुणान्विता येन ॥ १ ॥ तस्माञ्जगाद भगवान् सामायिकमेव निरुपमोपायम् । शारीरमानसानेकदुःखनाशस्यनाशस्य मोक्षस्य ॥२॥”
तत्र बोधादेरधिकमयनं प्रापणमध्ययनं प्रपञ्चतो वक्ष्यमाणशब्दार्थं, 'सामायिक' मित्यत्र यः सर्वभूतान्यात्मवत् पश्यति स रागद्वेषवियुक्तः समः तस्याऽऽयः - प्रतिक्षणं ज्ञानादिगुणोत्कर्षप्राप्तिः समायः, समो हि प्रतिक्षणमपूर्वैः ज्ञानदर्शनचरणपर्यायैर्भवाटवी भ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते, समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिकं, समाय एव सामायिकं, तस्य सामायिकस्य, 'ण'मिति वाक्यालङ्कारे, 'इमे 'त्ति अमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राध्ययनार्थकथनविधिरनुयोगः, द्वारणीव द्वाराणि महापुरस्येव सामायिकस्यानुयोगार्थं व्याख्यानार्थं द्वाराण्यनुयोगद्वाराणि, अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा हि अकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रवेशोपायाभावतो ऽनधिगमनीयत्वात्, कृतैकद्विकादिद्वारमपि दुरधिगमं कार्यातिपत्तये च भवति, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च संपद्यते, एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्याद् एकादिद्वारनुगतमपि दुरधिगमु भवेत्, सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं भवति, अतः फलवाँस्तदधिगमार्थो द्वारोपन्यासः ।
कानि पुनस्तानीति तद्दर्शनार्थमाह-'तद्यथे'त्यादि, तत्रोपक्रमणं-दूरस्थस्य वस्तुनस्तैः तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं हि उपक्रमान्तर्गतभेदैर्विचारितं हि निक्षिप्यते नान्यथेति भावः, उपक्रम्यते वा निक्षेपयोग्यं क्रियतेऽनेन गुरवाग्योगेनेत्युपक्रमः, अथवा उपक्रम्यते अस्मिन् शिष्य श्रवणभावे सतीत्युपक्रमः, अथवा उपक्रम्यते अस्माद्विनीतविनेयविनयादित्युपक्रमः, विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः, तदेवं करणाधीकरणापादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः, यदित्वेकोऽप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org