________________
मूलं-६५
मू.(६५) से तं खंधे। वृ. 'से त'मित्यादि निगमनम्। (इति स्कन्धाधिकार: कथितः । अथ आवश्यकषडध्ययनिववरणं कथ्यते) मू.(६६) आवस्सगस्स णं इमे अत्थाहिगारा भवंति, तंजहा
वृ. आह-नन्वाश्यके किमिति षडध्ययनानि?, अत्रोच्यते, षडाधिकारयोगात्, के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह- आवस्सगस्सन'मित्यादि आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथामू. (६७) सावज्जजोगविरई उक्तित्तण गुणवओ अपडिवत्ती।
खलिअस्स निंदना वणतिगिच्छ गुणधारणा चेव॥ वृ.'सावज्जजोग' गाहा, व्याख्या-प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिर्थाधिकारः, 'उक्तित्तण'त्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुदद्धधिहेतुत्वात् पुनर्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, 'गुणवओ य पडिवत्ति'त्ति गुणामूलोत्तरगुणरूपा व्रतपिण्डविशुद्धयादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिः-वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति दृष्टव्यम्, उक्तं च
"परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं।
कारणजाए जाए जहारिएं जस्सं जं जोगं ।।" - 'खलियस्स निंदन'त्ति खलियस्स निंदण'त्ति स्खलितस्य-मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोविशुद्धयमानाध्यवसायस्याकार्यभिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'वणतिगिच्छ'त्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति-चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा चेव'त्ति गुणधारणा प्रत्याख्यानाध्ययने अर्थाधिकारः, अयमत्र भावार्थ:-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एवकारोऽवधारण इति गाथार्थः ।। _तदेवं यदादौ प्रतिज्ञातम् ‘आवश्यकं निक्षेप्स्यामी'त्यादि, तत्रावश्यश्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि, साम्प्रतं त्वध्ययनपदमवसरायातमपिन निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्यमानत्वाद्, अत्रापि भणने च ग्रन्थगौरवाप्रत्तेरिति ।
इदानीमावश्यकस्य यद्व्याख्यातं तच्च (यच्च) व्याख्येयं तदुपदर्शयन्नाहमू. (६८) आवस्सयस्स एसो पिंडत्थो वण्णिओ समासेणं।
एत्तो एक्केकं पुन अज्झयणं कित्तइस्सामि। व. 'आवश्यकस्य' आवश्यकपदाभिधेयस्य शास्त्रस्य 'एषः' पूर्वोक्तप्रकार: 'पिण्डार्थः' समुदायार्थो 'वर्णितः' कथितः 'समासेन' संक्षेपेण, इदमत्र हृदयम्-आवश्यकश्रुतस्कन्ध इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org