________________
अनुयोगद्वार - चूलिकासूत्रं पूर्वोक्तमिश्रस्कन्धास्य तर्हि को विशेष इति चेद्, उच्यते, तत्र खङ्गाद्यजीवानां हस्त्यादिजीवानां च पृथग्व्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम्, अत्र तु जीवप्रयोगतो विशिष्टैक परिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसङ्गेन । 'सेत' मित्यादि निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः, तद्भणने च समर्थितो नोआगमो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति । अथ भावस्कन्धनिरूपणार्थमाह
मू. (६०) से किं तं भावखंधे ?, २ दुविहे पन्नत्तं, तंजहा- आगमओ नोआगमओ अ । वृ. अत्रोत्तरम्--‘भावखंधे दुविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च द्विविधः प्रज्ञप्तः, तद्यथा-आगमतश्चच नोआगमतश्च ।
मू. ( ६१ ) से किं तं आगमओ भावखंधे ?, २ जाणए उवउत्ते, से तं आगमओ भावखंधे । वृ. तत्राऽऽगमतः स्कन्धपदार्थज्ञस्तत्र चोपयुक्तः तदुपयोगानन्यत्वाद्भावस्कन्धः । मू. ( ६२ ) से किं तं नोआगमओ भावखंधे ?, २ एएसिं चेव सामाइअमाइयाणं छण्हं अज्झयणाणं समुदयसमिइसमागमेणं आवस्सयसुअखंधे भावखंधेत्ति लब्भइ, से तं नोआगमओ भावखंधे, से तं भावखंधे ।
२८४
वृ. नोआगमतस्तु एतेपामेव प्रस्तुतावश्यक भेदानां सामायिकादीनां षण्णामध्ययनानां समुदायः, स चैतेषां विशकलितानामपि तथाविधदेवदत्तादीनामिव तथाविधदेवदत्तादीनामिव स्यादत उच्यते-समुदयस्य समिति: नैरन्तर्येण मीलना, सा च नैरन्तर्यावस्थापिताय: शलाकानामिव परस्परनीरपेक्षाणामपि स्यादत उच्यते तस्याः समुदयसमितेर्यः समागम: - परस्परं सम्बद्धतया विशिष्टैक परिणामः समुदयसमितिसमागस्तेन निष्पन्नो य आवश्यक श्रुतस्कन्धः स भावस्कन्ध इति 'लभ्यते' प्राप्यते भवति इति हृदयम् । इदमुक्तं भवति - सामायिकादिषडध्ययनसंहितिनिष्पन्न आवश्यक श्रुतस्कन्धो मुखवस्त्रिकारजोहरणादिव्यापारलक्षणक्रियायुक्ततया विवक्षितो नोआगमतो भावस्कन्ध, नोशब्दस्य देशे आगमनिषेधपरत्वात् क्रियालक्षणस्य च देशस्यानागमत्वादिति भावः । 'से त' मित्यादि निगमनम् । तदेवं प्रतिपादितो द्विविधोऽपि भावस्कन्ध इति निगमयति- 'से तं भावखंधे 'त्ति ।
इदानीं त्वस्यैव एकार्थिकान्यभिधित्सुराह
मू. (६३) तस्स णं इमे एगट्ठिया नानाघोसा नानावंजणा नामधेज्जा भवंति, तंजहा-' वृ. गतार्थम् ।
मू. ( ६४ )
wide
गणका अ निकाए खंधे वग्गे तहेव रासी अ ।
पुंजे पिंडे निगरे संघाए, आउल समूहे ॥
वृ. 'गणकाए 'गाहेति, व्याख्या - मल्लादिगणवद्गणः, पृथिवीकायादिवत् कायः, षड्जीवनिकायवन्निकाय:, त्र्यादिपरमाणुस्कन्धवत् स्कन्धः, गोवर्गवद् वर्गः, शालिधान्यादिराशिवद् राशि:, विप्रकीर्णपुञ्जींकृतधान्यादिपुञ्जवत् पुञ्जः, गुडादिपिण्डवत् पिण्डः, हिरण्यद्रव्यादिनिकरवन्निकरः, तीर्थादिषु सम्मीलितजनसङ्घावत् सङ्घातः, राजगृहाङ्गणजनाकुलवदाकुलः, पुरादिजनसमूहवत् समूहः, एते भावस्कन्ध पर्यायवाचका ध्वनय इति गाथार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org