SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८३ मूलं-५७ कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात् सिद्धं प्रकारान्तरत्वम्। यद्येवं तहि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात्, नैतदेवं यतोसंख्येयप्रदेशात्मको जीवस्तदधिष्ठिताश्च शरीरावयवा इत्येवंलक्षण: समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासंझयेयप्रदेशात्मकतया सर्वत्र तुल्यात्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धं, यदि हि जीवप्रदेशपुद्गलसमुदायः सामस्त्येन वर्द्धत तदा स्याद्गजादिस्कन्धस्य बृहत्त्वं, तच्च नास्ति, समुदायवृद्धयभावात्, तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदास्य हीनाधिक्याभावात् सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात् कृत्स्नस्कन्धाः । ___ अन्ये तु पूर्वं सचित्तस्कन्धविचारे जीवतदधिष्ठितशरीरवयवसुमदायः सचित्तस्कन्धोऽत्र तु शरीरात् बुद्धया पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते, अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वमाविरोधादित्यलं प्रसङ्गेन। ‘से त'मित्यादि निगमनम्। अथाकृत्स्नस्कन्धनिरूपणार्थमाह मू. (५८) से किं तं अकसिणखंधे?, २ सो चेव दुपएसियाइखंधे जाव अनंतपएसिए खंधे, से तं अकसिणखंधे। __वृ. 'स' इत्यादि, अत्रोत्तरम्-'अकसिणखंधे सो चेवे'त्यादि, न कृत्स्नोऽकृत्स्नः स चासौ स्कन्धश्चाकृत्स्नस्कन्धो यस्मादन्योऽपि बृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह-'सो चेवे'त्यादि स एव 'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्स्नोऽकृत्स्न इत्यर्थः, द्विप्रदेशिकस्य त्रिपदेशिकापेक्षयाऽकृत्स्नोत्वात्, त्रिपदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्स्नत्वाद्, एवं तावद्वाच्यं यावत् नापद्यत इति। पूर्व द्विपदेशिकादिः सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु सर्वोत्कृष्टस्कन्धादधोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्स्नस्कन्धत्वेनोक्ता इति विशेषः । 'से त' मित्यादि निगमनम्। अथानेकद्रव्यस्कन्धनिरूपणार्थमाह- . मू. (५९) से किं तं अनेगदीवयखंधे?, २ तस्स चेव देसे अवचिएअ तस्स चेव देसे उवचिए, सेतं अनेगदविअखंधे से तंजाणयसरीरभवियसरीरवइरित्ते दव्वखंधे, सेतं नोआगमतो दव्वखंधे, से तं दव्वखंधे। वृ.'से' इत्यादि, अत्रोत्तरम्-'अनेगदवियखंधे तस्स चेवे'त्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमानं संबध्यते, ततश्च तस्यैव' यस्य कस्यचित्त स्कन्धस्य यो 'देशो' नखदन्तकेशादिलक्षण: 'अपचितो' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देशः' पृष्टोदरचरणादिलक्षण 'उपचित्तो' जीवप्रदेशैर्व्याप्त इत्यर्थः, तयोर्यथोक्तदेश-योर्विशिष्टैकपरिणामपरिणतयोर्यो देहाख्यः समुदायः सोऽनेकद्रव्यस्कन्धः, सचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगदास्य को विशेष इति चेद्, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीतिविशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy