SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २८२ अनुयोगद्वार-चूलिकासूत्रं ___ इह च सचित्तस्कन्धाधिकाराञ्जीवानामेव च परमार्थतः सचेतनत्वात् कथञ्चिच्छरीरैः, सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तुद तदधिष्ठितशरीराणीति सम्प्रदायः, न च जीवानां स्कन्धत्वं, पपद्यते, प्रत्येकमसङ्खयेयपदेशात्मकत्वेन तेषां स्कन्धत्वस्य सुप्रतीतत्वादिति, हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं, किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यं, किन्तु पृथग्भिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनाऽऽत्माद्वैतवादं निरस्यति, तथाऽभ्युपगमे मुक्ततरादिव्यव्यवहारोच्छेदप्रसङ्गात्, ‘से त'मित्यादि निगमनम्। . अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह मू.(५४) से किं तं अचित्ते दव्वखंधे? २ अनेगविहे पन्नत्ते, तंजहा-दुपएसिए तिपएसिए जाव दसपएसिए संखिज्जपएसिए असंखिज्जपएसिए अनंतपएसिए, सेतं अचित्ते दव्वखंधे। वृ. 'से'इत्यादि, अत्र निर्वचनम्-‘अचित्तदव्वखंधे' इत्यादि, अविद्यमानचित्तोऽचित्तः स चासौ द्रव्यस्कन्धश्चेति समासः, अयमनेकविधः प्रज्ञप्तः, तद्यथा-द्विप्रदेशिकः, स्कन्ध इत्यादि, तत्र प्रकृष्टः पुद्गलास्तिकायदेश: प्रदेश: परमाणुरित्यर्थः, द्वौ प्रदेशौ यत्र स द्विप्रदेशिकः स चासौ स्कन्धश्च द्विप्रदेशिस्कन्धः, एवमन्यत्रापि यथायोगं समासः। 'सेत'मित्यादि निगमनम्। अथ मिश्रद्रव्यस्कन्धनिरूपणायाऽऽह मू. (५५) से किं तं मीसए दव्वखंधे?, २ अणेगविहे पन्नत्ते, तंजहा-सेणाए अग्गिमे खंधे सेणाए मज्झिमे खंधे सेणाए पच्छिमे खंधे, से तं मीसए दव्वखंधे। वृ. 'से'इत्यादि। अत्रोत्तरम्-'मीसए दव्वखंधे० सेणाए' इत्यादि, सचेतनाचेतनसंकीर्णो मिश्रः सचासौ द्रव्यस्कन्धश्चेति मिश्रद्रव्यस्कन्धः, कोऽसावित्याह-सेनायाः-हस्त्यश्वरथपदातिसन्नाहखड्गहकुन्तासमुदायलक्षणाया अग्रस्कन्धोऽग्रानीकमित्यर्थः, मध्यमस्कन्धो मध्यमानीकं, पश्चिमस्कन्धः पश्चिमानीकम्, एतेषु हि हस्त्यादयः सचित्ताः खङ्गादयस्त्वचित्ता इत्यतो मिश्रत्वं भावनीयमिति। 'सेत'मित्यादि निगमनम्। तदेवमेकेन प्रकारेण तद्वयतिरिक्तो द्रव्यस्कन्धः प्ररूपितः। अथ तमेव प्रकारान्तरेण प्ररूपयितुमाहमू. (५६) अहवा जाणयसरीरभविअसरीरवइरिते दव्वखंधे तिविहे पन्नत्ते, तंजहाकसिणखंधे अकसिणखंधे अनेगदवियखंधे। वृ. 'अथवा' अन्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा-कृत्स्नस्कन्धः अकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः । तत्राऽऽद्यभेदनिरूपणार्थमाह मू. (५७) से किं कसिणखंधे?, से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, से तं कसिणखंधे। वृ. 'से' इत्यादि, अत्रोत्तरम्-'कसिणखंधे' इत्यादि, यस्मान्दयो बृहत्तरः स्कन्धो नास्ति स कृत्स्न:-परिपूर्णः स्कन्ध कृत्स्नस्कन्धः, कोऽयमित्याह-'से चेवे'त्यादि, स एव हयखंधेत्यादिनोपन्यस्तो हयादिकस्कन्धः कुत्स्नस्कन्धः । आह-यद्येवं प्रकारान्तरत्वमसिद्धं, सचित्तस्कन्धस्यैव संज्ञान्तरेणोक्तत्वात्, नैतदेवं, प्राग् सचित्तद्रव्यस्कन्धाधिकारात्, तथाऽसम्भविनोऽपि बुद्धया निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy