________________
२६
____ नन्दी-चूलिकासूत्रं वष्टम्भेनान्यस्य विवक्षितपुरुषस्योपमानप्रमाणतः सर्वज्ञ इति प्रतीतिर्भवेत्, नाप्यर्थापत्तिगम्यः, सा हि प्रत्यक्षादिप्रमाणगोचरीकृतार्थान्यथानुपपत्त्या प्रवर्तते, न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमर्थापत्तिगम्य:?, तदेवं प्रमाणपञ्चकावृत्तेरभावप्रमाणमेव सर्वज्ञंक्रोडीकरोति,
___ "प्रमाणपञ्चकं यत्र, वस्तरूपे न जायते।
वस्त्वसत्तावबोधार्थं, तत्राभावप्रमाणता॥" अपि च-सर्वं वस्तु जानाति भगवान् केन प्रमाणेन?, किं प्रत्यक्षेण उत यथासम्भवं सर्वैरेव प्रमाणैः, तत्र न तावत्प्रत्यक्षेण, देशकालविप्रकृष्टेषु सूक्ष्मेष्वमूर्तेषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात्, यदि पुनस्तत्रापिन्द्रियं व्याप्रियेत तर्हि सर्वः सर्वज्ञो भवेत्, अथेन्दियप्रत्यक्षादन्यदतीन्द्रियं प्रत्यक्षतस्यास्ति तेन सर्वं जानातीति मन्येथाः, तदप्ययुक्तम्, तस्यास्तित्वे प्रमाणाभावात, न च प्रमाणमन्तरेण प्रमेयसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः, अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इति न निश्चयः, न खल्वतीन्द्रियमप्यवधिज्ञानं सर्ववस्तुविषयं सिद्धं, तदपरिच्छिन्नानामपि धर्माधर्मास्तिकायादीनां सम्भवाद, एवं केवलज्ञानापरिच्छिन्नमपि किमपि वस्तु भविष्यतीत्याशङ्काऽनतिवृर्तेर्न सर्वविषयं केवलज्ञानं वक्तुं शक्यं, तथा च कुतः सर्वज्ञस्यापिस्वयमात्मनः सर्वज्ञत्वविनिश्चयः?,अथ यथायथंसवेरेव प्रमाणैः सर्वं वस्तु जानातीति पक्षः, नन्वेवं सति य एवागमे कृतपरिश्रमः स एव सर्वज्ञत्वं प्राप्नोति, आगमस्य प्रायः सर्वार्थविषयत्वात्, तथा च कः प्रतिविशेपो वर्द्धमानस्वाम्यादौ? येन स एव प्रमाणभिष्यते न जैमिनिरिति । अन्यच्च-यथाऽवस्थितसकलवस्तुवेदी सर्वज्ञ इष्यते, ततोऽशुच्यादिरसानामपि यथावस्थिततया संवेदनादशुच्यादिरसास्वादप्रसङ्गः, आह च___ "अशुच्यादिरसास्वादप्रसङ्गश्चानिवारितः" किंच-कालतोऽनाद्यनन्तः संसारो, जगति च सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि, ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापी कालेन, सर्ववेदी भविष्यति ?, उक्तं च-'क्रमेण वेदनं कथ'मिति, अत्र प्रतिविधीयते-तत्र यत्तावदुक्तं सर्वजगदुद्योतकत्वं भगवतः केन प्रमाणेन प्रतीयते? इत्यादि' तत्रागमप्रमाणादिति ब्रूमः स चागमः कथञ्चिनित्यः प्रवाहतोऽनादित्वात्, तथाहि
यामेव द्वादशाङ्गी कल्पलताकल्पां भगवान् ऋषभस्वामी पूर्वभवेऽधीतवान्, अधीत्य च पूर्वभवे इहभवे च यथावत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान् तामेवोत्पन्नकेवलज्ञान: सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि द्रष्टव्यम्, ततोऽसावागमोऽर्थरूपापेक्षया नित्यः, तथा च वक्ष्यति-"एसा दुवालसङ्गी न कयाविनासीन कयाविन भवइन कयाविन भविस्सइ, धुवा नीया सासया अक्खया अव्वया अव्वाबाहा अवट्ठिया निच्चा" इति, अस्मिश्चागमे यथा संसारी संसारं पर्यटति यथा कर्मणामभिसमागमो यथा च तप:संयमादिना कर्मणामपगमे केवलाभिव्यक्तिः तथा सर्वं प्रतिपाद्यते, इति सिद्ध आगमात्सर्वज्ञः।
यदप्युक्तम -'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, स च न सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् स्वतोऽपि, निश्चिताविपरीतप्रत्ययोत्पादकत्वात्, ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावोऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात्, ततः सर्वज्ञसिद्धिः, अथैवमागमात् सर्वज्ञः सामान्यतः सिद्धति न विशेषनिर्देशेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org