________________
मूलं - २
२५
-काबा
-
जयादतिशायी विक्रान्तो महावीरः अथवा 'ईरगतिप्रेरणयो:' विशेषेण ईरयति--गमयति स्फेटयति कर्म्म प्रापयति वा शिवमिति वीरः, अथवा 'ईरिगतौ' विशेषेण-अपुनर्भावेन इयर्ति स्म याति स्म शिवमिति वीरः, महांश्चासौ वीरश्च महावीरः यजतीति पूर्ववद्, भूयोऽस्याभिधानं च स्तवाधि-काराददुष्टम् ॥ पुनरप्यस्यैव भगवतो महावीरस्यातिशयद्वारेण स्तुतिमभिधित्सुराहभद्दं सव्वं जगुज्जोयगस्स भद्द जिनस्स वीरस्स ।
मू. ( ३ )
भदं सुरासुरनमंसियस्स भद्दं धुयरयस्स ।।
वृ. ‘भद्रं' कल्याणं भवतु, कस्य ?, 'सर्वजगदुद्योतकस्य' सर्वं समस्तं जगत् - लोकालोकात्म्कमुद्योतयति-प्रकाशयति केवलज्ञानदर्शनाभ्यामिति सर्वजगदुद्योतकः, तस्य 'भद्रायुष्यक्षेमसुखहितार्थहितैराशिपी'ति विकल्पेन चतुर्थीविधानात् षष्ट्यपि भवति, यथा आयुष्यं देवदत्ताय आयुष्यं देवदत्तस्य, अनेन ज्ञानातिशयमाह ।
ननु विशेषणं तदुपादीयते यत्सम्भवति, 'सम्भवं व्यभिचारे च विशेषण' मिति वचनात्, नच सर्वजगतदुद्योतकत्वं सम्भवति, प्रमाणेनाग्रहणात् तथाहि सर्वजगदुद्योतकत्वं भगवतः किं प्रत्यक्षेण प्रतीयते ? उतानुमानेन आहोश्विदागमेन उताहो उपमानेन अथवा अर्थापत्त्या ?, तत्र न तावत्प्रत्यक्षेण, भगवतश्चिरातीतत्वात्, अपिच-परविज्ञानं सदैव प्रत्यक्षाविषयः, अतीन्द्रियत्वात्, ततस्तदात्वेऽपि न प्रत्यक्षेण उतानुमानेन ?, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपुरस्सरमेव प्रवर्त्तते, लिङ्गलिङ्गिसम्बन्धग्रहणं च किं प्रत्यक्षेणानुमानेन वा ?, तत्र न प्रत्यक्षेण, सर्ववेदनस्यात्यन्तपरोक्षतया प्रत्यक्षेण तस्मिन्नगृहीत्ते तेन सह लिङ्गस्याविनाभावनिश्चयायोगात्, न चानिश्चिताविनाभावं लिङ्ग लिङ्गिनो गमकम्, अतिप्रसङ्गात्, यतः कुतश्चिद्यस्य तस्य वा प्रतिपत्तिप्रसक्तेः, नाप्यनुमानेन लिङ्गलिङ्गसम्बन्धग्रहणम्, अनवस्थाप्रसङ्गात्, तथाहि
तदप्यनुमानं लिङ्गलिङ्गिसम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिङ्गलिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्त्तव्यम्, तत्रापि चेयमेव वार्त्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, स हि पौरुषेयो वा स्यादपौरुषेयो वा ?, पौरुषेयोऽपि सर्वज्ञकृतो रथ्यापुरुषकृतो वा ?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धौ सर्वज्ञकृतत्वस्यैवाविनिश्चयात्, अपि च- एवमभ्युपगमे सतीतरेतराश्रयदोषप्रसङ्गः, तथाहि-सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ रथ्यापुरुषप्रणीत इति पक्षस्तर्हि न स प्रमाणमुन्मत्तकप्रणीतशास्त्रवत्, अप्रमाणाच्च तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अप्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येषणं विशीर्येत, अथापौरुषेय इति पक्षस्तर्हि ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभाद्यभावेऽपि भावात्, तथाहि-सर्व्वकल्पस्थायी आगमः, ऋषभादयस्त्वधुनातनकल्पवर्त्तिनः, तत ऋषभाद्यभावेऽपि पूर्व्वमप्यस्यागमस्यैवमेव भावात्मकथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत् ?, तस्मादर्थवाद एषः, न सर्व्वज्ञप्रतिपादनमिति ।
अपि च-यद्यपौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञेन ?, आगमादेव धर्म्माधर्म्मादिव्यस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्, तथाहिप्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शना. नन्तरं तन्नामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्या
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
--