________________
नन्दी - चूलिकासूत्रं
तन्नात्यन्तपरोक्षेषु, सदसत्ताविनिश्चयौ ॥२॥"
अथ वचनं विवक्षाधीनं विवक्षा च वक्तुकामता सा च रागो रागादिमतश्च सर्वज्ञत्वभावो, वीतरागस्य सर्वज्ञत्वाभ्युपगमात्, ततः कथमिव वक्तृत्वात् नासर्वज्ञत्वानुमानमिति ?, तदसद्, वक्तुकामताया रागत्वायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिष्वङ्गः, किमर्थं तर्हि देशनेति चेत् ननूक्तं तीर्थकरनामकर्मोदयात्, अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेद्यं तत्तथैवाभिष्वङ्गाद्यभावेऽपि वेदयते, तथा चाद्यापि दृश्यन्ते परमौचित्यवेदिनः, क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानः, तीर्थकरनामकर्म च देशनाविधानेन वेद्यम्, “तं च कहं वेइज्जइ ?, अगिलाए धम्मदेसणाईहि" इति वचनात्, ततो न कश्चिद्दोष:, स्यादेतत् मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि
२४
--
रागादिसहचरितं सदैव वचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धि:, तदयुक्तम्, सहदर्शनमात्रस्यागमकत्वाद्, अन्यथा क्वचिद्वक्तरि गौरत्वेन सह वचनमुपलब्धमिति गौरत्वाभावे कृष्ण वक्तरि न स्यात्, अथ च तत्राप्युपलभ्यते, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षेव्यावृत्तिसन्देहाद्वक्तृत्वादिति सन्दिग्धानैकान्तिको हेतूफ अथवा विरुद्धोऽपि, विपक्षेण सह प्रतिबन्धनिश्चयात्, तथाहि - वचनं संवेदनादेवोपजायते, अन्वयव्यतिरेकाभ्यां तथानिश्चयात्, कथमन्वयव्यतिरेकौ प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा तथा वचस्विताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्षाभावे च वचस्विताया अपकर्षो, मूर्खाणां स्थलभाषितयोपलम्भात्, ततो यथा वृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानं तथेहापि भगवतः सर्वोत्कृष्टवक्तृत्वदर्शनात् सर्वोत्कृष्टं संवेदनमनुमीयते, अपरस्त्वाह-वचनं वितर्कविचारपुरस्परं तथोपलम्भात्, वितर्कविचारौ च विकल्पात्मकौ, विकल्पस्त्वस्पष्टप्रतिभास:, ततो भगवतोऽपि देशनां कुर्वतोऽस्पष्टप्रतिभासं वैकल्पिकं ज्ञानं प्रसक्तं, तच्च भ्रान्तमिति कथमभ्रान्तः सर्ववेदी ?, तदसद्, यतो वितर्कविचारावन्तरेणापि केवलज्ञानेन यथावस्थितं वस्तूपलभ्य भगवान् वचनं परावबोधाय प्रयुङ्क्ते, यथा शब्दव्यवहारनिष्णातः प्रत्यक्षतः स्तम्भमुपलभ्य स्तम्भशब्दं, न च तस्य तथा स्तम्भशब्दं प्रयुञ्जानस्य वितर्कविचारौ, नापि ज्ञानस्यास्पष्टप्रतिभासता, तथाऽननुभवाद्, एवं भगवतोऽपि द्रष्टव्यम्, उक्तं चान्यैरपि'चास्पष्टावभासित्वादेव शब्दः प्रवर्त्तते । प्रत्यक्षदृष्टे स्तम्भादावपि शब्दप्रवर्त्तनात् ॥ १॥" अयं स्तम्भ इति प्राप्तमन्यथाऽस्याप्रवर्त्तनम् । न चास्पष्टावभासित्वमत्र ज्ञानस्य लक्ष्यते ॥२॥
44
Jain Education International
-
तथाऽन्यत्रापि शब्दानां प्रवृत्तिर्न विरुध्यते ।। " इति तदेवं यतो भगवान् सर्वश्रुतानां प्रभवः सर्वतीर्थकृतां चापश्चिमस्तीर्थकरः ततः सकलसत्त्वानां गुरुः, तथा चाह-- 'जयति गुरुर्लोकाना'मिति लोकानां - सत्त्वानां गृणाति प्रवचनार्थमिति गुरुः, प्रवचनार्थप्रतिपादकतया पूज्य इत्यर्थः ।
तथा 'जयति महात्मा महावीर: ' महान्- अविचिन्त्यशक्त्युपेत आत्मास्वभावो यस्य स महात्मा, 'शूर वीर विक्रान्तौ ' वीरयति स्मेति वीरो-विक्रान्तः, महान् कषायोपसर्गपरिषहेन्द्रियादिशत्रुगण
For Private & Personal Use Only
www.jainelibrary.org