________________
२३
मूलं-२ याविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तगर्तविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादिप्रवचनं तत्करणशीला: तीर्थकराः तेषां-तीर्थकराणाम् अस्मिन भारत वर्षेऽधिकृतायामवसर्पिण्यां न विद्यते पश्चिमोऽस्मादित्यपश्चिमः-सर्वान्तिमः, पश्चिम इति नोक्तम्, अधिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फलार्थी प्रवर्त्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात्, ततोऽसौ तीर्थं कुर्वत्रवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मादृश इव व्यक्तमवीतरागः, तदयुक्तम्, यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्तनाय प्रवर्त्तन्ते, तीर्थकरनामकर्म च तीर्थप्रवर्तनफलं, ततो भगवान् वीतरालोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्तनस्वभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थं प्रवर्तयतीति न कश्चिद्दोषः, उक्तं च
"तीर्थप्रवर्तनफलं यत्प्रोक्तं कर्म तीर्थकरनाम। तस्योदयात् कृतार्थोऽप्यहँस्तीर्थं प्रवर्त्तयति ॥१॥" तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम्।
तीर्थप्रवर्त्तनाय प्रवर्त्तते तीर्थकर एवम् ॥२॥" ननु तीर्थप्रवर्तनं नाम प्रवचार्थप्रतिपादनं, प्रवचनार्थं चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भाते, तथा चात्र प्रयोगः-विवक्षितः पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद्, रथ्यापुरुषवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात्, तथाहि-नवचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोध:परस्परपरिहारलक्षणः सहानवस्थालक्षणश्च, तत्र परस्परपरिहारलक्षणः तादात्म्यप्रतिषेधे यथा घटपटयोः, न खलु घट: पटात्मको भवति नापि पटो घटात्मकः, 'न सत्ता सदन्तरमुपेती'ति वचनात्, ततोऽनयोः परस्परपरिहारलक्षणो विरोधः, एवं सर्वेषामपि वस्तूनां भावनीयम्, अन्यथा वस्तुसाङ्कर्यप्रसक्तेः, यस्तु सहानवस्थानलक्षणो विरोधः स परस्परं बाध्यबाधकभावसिद्धौ सिद्ध्यति, नान्यथा, यथा वह्निशीतयोः, तथाहि-विवक्षिते प्रदेशे मन्दं मन्दमभिज्वलितवति वह्नौ शीतस्यापि मन्दं मन्दं भावः, यदा पुनरत्यर्थमभिज्वाला विमुञ्चति वह्निः तदा सर्वथा शीतस्याभाव इती भवत्यनयोविरोधः, उक्तं च
"अविकलकारणमेकं तदपरभावे यदा भवन्न भवेत्।
भवति विरोधः स तयोः शीतहताशात्मनोदृष्टः ।।" न चैवं वचनसंवेदनयोः परस्परं बाध्यबाधकभावो, न हि संवेदने तारतम्येनोत्कर्षमासादयति वचस्वितायाः तारतम्येनापकर्ष उपलभ्यते, तत्कथमनयोः सहानवस्थालक्षणो विरोधः?, अथ सर्ववेदीवक्ता नोपलब्ध इति विरोध उद्धृष्यते, तदयुक्तम्, अत्यन्तपरोक्षो हि भगवान्, ततः कथमनुपलम्भमात्रेण तस्याभावनिश्चयः?, अदृश्यविषयस्यानुपलम्भस्याभावनिश्चयकत्वायोगात्, आह च प्रज्ञाकरगुप्तः
"बाध्यबाधकभावः कः, स्यातां यद्युक्तिसंविदौ। तादृशोऽनुपलब्धिश्चेदुच्यतां सैव साधनम्॥१॥"
अनिश्चयकरं प्रोक्तमीक्षानुपलम्भनम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org