________________
नन्दी-चूलिकासूत्रं शक्तिः, केवलं स्थाणुमुखेन स एवात्मानं मार्गोपदेष्टारं कथयति, एवं वेदस्यापि न स्वार्थोपदर्शनशक्तिः, ततस्तन्मुखेन जैमनिरात्मानमेवार्थनियमस्त्रष्टारमुपदर्शितवान्, तन्त्र लौकिकशब्दव्यवहारानुसरणात्रापि युक्तेनापि च सम्प्रदायाद् वेदस्यार्थनिश्चयो, नापि तस्यापौरुषेयत्वसाधकं किनपि प्रमाणमित्यसम्भव्यपौरुषेयम्, उक्तं च
"बान्ध्येयखरविषाणतुल्यमपौरुषेय"मिति, ननु यदि बान्ध्येयखरविषाणतुल्यमपौरुषेयं भवेत् तर्हि न वेदवचोऽपौरुषेयतया शिष्टाः प्रतिगृह्णीयुः, अथ च सर्वेष्वपि देशेषु शिष्टाः प्रतिगृह्णन्तो दृश्यन्ते, तस्मानासम्भव्यपौरुषेयम्, तदत्र पृच्छामः-के शिष्याः?, ननु किमत्र प्रष्टव्यम्?, ये ब्राह्मणीयोनिसम्भविनो वेदोक्तविधिसंस्कृता वेदप्रणीताचारपारिपालनैकनिषण्णचेतसः ते शिष्टाः, तदेतयुक्तं, विचाराक्षमत्वात्, तथाहि-किमिदं नाम ब्राह्मणत्वं यद्योनिसम्भवाच्छिष्टत्वं भवेत्?, ब्रह्मणोऽपत्यत्वमिति चेत् तथाहि-ब्रह्मणोऽपत्यं ब्राह्मण इति व्यपदिशन्ति पूर्वर्षयः, न, एवं सति चाण्डालस्यापि ब्राह्मणत्वप्रसक्तिः तस्यापि ब्रह्मतनोरुत्पन्नत्वात्, उक्तं च
"ब्रह्मणोऽपत्यतामात्राद, ब्राह्मणोऽतिप्रसज्यते।
__न कश्चिदब्रह्मतनोरुत्पन्नः कश्चिदिष्यते॥" यदप्युक्तम्-'वेदोक्तविधिसंस्कृता वेदप्रणीताचारपरिपालनैकनिषण्णचेतसः' इति तदप्ययुक्तम्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि-वेदस्य प्रामाण्ये सिद्धे सति तदुक्तविधिसंस्कृताः तदर्थसमाचारणाच्छिष्टा भवेयुः, शिष्टत्वे च तेषां सिद्धे सति तत्परिग्रहाद्वेदप्रामाण्यमित्येकाभावेऽन्यतरस्याप्यभावः, आह च
___"शिष्टैः परिगृहीतत्वाच्चेदन्योऽन्यसमाश्रयः।
.. वेदार्थाचरणाच्छिष्टास्तदाचाराच्च स प्रभा ।।" स्यादेतत्त-भवतोऽपि तत्त्वतोऽपौरुषेयं वचनमिष्टमेव, तथाहि-सर्वोऽपि सर्वज्ञो वचनपूर्वक एवेच्यते, "तप्पुब्विया अरिहया" इति वचनप्रामाण्यात्, ततोऽनादित्वात् सिद्धं वचनस्यापौरु:षेयत्वमिति, तदयुक्तमा, अनादितायामप्यपौरुषेयत्वायोगात्, तथाहि-सर्वज्ञपरम्पराऽप्येषाऽनादिरिष्यते, ततः पूर्वः पूर्वः सर्वज्ञः प्राक्तनसर्वज्ञप्रणीतवचनपूर्वको भवन विरुध्यते, किं च-वचनं द्विधा-शब्दरूपमर्थरूपं च, तत्र शब्दरूपवचनापेक्षया नायमस्माकं सङ्गरो, यदुतसर्वोऽपि सर्वज्ञो वचनपूर्वक इति, मरुदेव्यादीनां तदन्तरेणापि सर्वज्ञत्वश्रुतेः, किन्त्वर्थरूपापेक्षया, ततः कथं शब्दापौरुषेयत्वाभ्युपगमप्रसङ्गः?, नन्वर्थपरिज्ञानमपिशब्दमन्तरेण नोपपद्यते, तत्कथं न शब्दरूपापेक्षयाऽपि सङ्गरः, तदसत्, शब्दमन्तरेणापि विशिष्टक्षयोपशमादिभावतोऽर्थपरिज्ञानसम्भवात्, तथाहि-दृश्यन्ते तथाविधक्षयोपशमभावतो मार्गानुसारिबुद्धेर्वचनमन्तरेणापि तदर्थप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः।
तत्र सर्वज्ञ श्रुतप्रभवा ऋषभादयोऽप्यासीरन् न च ते सम्प्रति स्तोतुं प्रस्तुता इति तद्यवच्छेदार्थं विशेषणान्तरमाह-तीर्थकराणामपश्चिमो जयति, तत्र जन्मजरामरणसलिलसम्भृतं मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं दुरवगाहमहामोहाव-भीषणं रागद्वेषपवनविक्षोभितं विविधानिष्टसंयोगवियोगवीचीनिचयसंकुलं उच्चस्तरमनोरथसहस्रवेलाकलितंसंसारसागरंतरन्ति येन तत्तीर्थं, तच्च सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यान्तानवद्यं शेषतीर्थान्तरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org