________________
मूलं-२ ___ द्रविडस्यार्यदेशमुपागतस्य मारिशब्दात्, झटिति वर्षविपया प्रतीतिरुपजायते, विलम्बिता चोपसर्गविषया, यद्वा आर्यदेशोत्पन्नस्य द्रविडदेशमधिगतस्य शीघ्रमुपसर्गविषया प्रतीतिः विलम्बिता च वर्पविषया, एवमनया दिशा सर्वेषामपि शब्दानां सर्वार्थवाचकत्वं परिभावनीयं, न च वाच्यम्-एवं सति घटशब्दमात्र श्रवणादखिलार्थप्रतीतिप्रसङ्गो, यथा क्षयोपशममवबोधप्रवृत्तेः, क्षयोपशमश्च सङ्केताद्यपेक्ष इति तदभावे न भवति, ततोऽग्निहोत्रादिशब्दस्य स्वमांसादिवाचकत्वेऽप्यविरोध इति लोकिकशाब्दव्यवहारानुसरणेऽपिन वैदिकवाक्यानामभिलषितनियतार्थप्रतिपत्तिः । किंच___ लोकप्रसिद्ध नैव शाब्देन व्यवहारेण वयं वेदवाक्यानां प्रतिनियतमर्थं निश्चेतुमुधुक्ता , लौकिकश्च शाब्दो व्यवहारोऽनेकधा परिप्लवमानो दृष्टः, सङ्केतवशतः प्रायः सर्वेषामपि शब्दानां सर्वार्थप्रतिपादनशक्तिसम्भवात्, ततो लौकिकेनैव शाब्देन व्यवहारेणास्माकमाशङ्कोदपादिकोऽत्रार्थ: स्यात् ?, किं घृताहुँति प्रक्षिपेत् स्वर्गकाम इति उताहो स्वमांसं स्वादेदिति ?, तत्कथं तत एव निश्चयः कर्तुं बुध्यते ?, न हि यो यत्र संशयहेतुः स तत्र निश्चयमुत्पादयितुं शक्त इति, अपि च-नैकान्तेन वेदे लौकिकशाब्दव्यवहारानुसरणं, स्वगर्गोर्वश्यादिशब्दानामरूढार्थानामपि तत्र व्याख्यानात्, यथा स्वर्ग:-सुखविशेषः उर्वशी तु-अरणिरिति, तथा शब्दान्तरेष्वप्यरूढार्थकल्पना किं न सम्भविनि?, उक्तं च
"स्वर्गोर्वश्यादिशब्दस्य, दृष्टोऽरूढार्थवाचकः।
शब्दान्तरेषु तादृक्षु, तादृश्येवास्तु कल्पना ।।१॥" स्यादेतद्-अग्निहोत्रादेर्वाक्यस्य स्वमांसभक्षणप्रसङ्गो न युक्तो, वेदेनैवान्यत्र तस्यान्यथा व्याख्यानात्, तदयुक्तम्, तत्रापि वाक्यार्थस्य निर्णयाभावात्, यथोक्तं प्राक्-न हि अप्रसिद्धार्थस्य वाक्यस्य अप्रसिद्धार्थमेव वाक्यान्तरंनियतार्थप्रसाधनायालं, तुल्यदोषत्वात्, अथेत्थमाचक्षीथाः-- यत्रार्थे न काचित्प्रमाणबाधा सोऽर्थो ग्राह्यो, न चाग्निहोत्रादिवाक्यस्य धृताहुतिप्रक्षेपरूपेऽर्थे प्रमाणबाधामुत्पश्यामः, तत्कथं तमर्थं न गृह्णीमः?, तदेतत् स्वमांसभक्षणलक्षणेऽप्यर्थे समानं, न हि तत्रापि कांचित्प्रमाणबाधामीक्षामहे, अपि च-यदि प्रमाणबलात्प्रवृत्तिमीहसे तहि पारुषेयमेव वचस्त्वयोपादेयं, तस्य लोकप्रतीत्यनुसारितया सम्प्रदायतोऽधिगतार्थतया च प्रायो युक्तिविषयत्वात्, नापौरुषेयं, विपरीततया तत्र युक्तेरसम्भवात्, तथाहि___ काऽत्र युक्तिः ? यया स्वमांसभक्षणात् स्वर्गप्राप्तिर्बाध्यते, न धृताहुतिप्रक्षेपादिति ?, धृताद्याहुतिप्रक्षेपादीनां स्वर्गप्रापणादिशक्तेरतीन्द्रियत्वेन प्रत्यक्षाद्यगोचरत्वात्, सम्प्रदायस्य चार्थनयत्यकारिणोऽसम्भवाद्, एतच्चानन्तरमेव वक्ष्यामः, अथागमार्थाश्रया युक्तिः स्वमांस-- भक्षणतः स्वर्गप्राप्तेर्बाधिका भविष्यति, तदयुक्तम्, आगमार्थस्याद्याप्यनिश्चयात् अनिश्चितार्थस्य च बाधकत्वायोगात्, अथ सम्प्रदायादर्थनिश्चयो भविष्यति, तथाहि-प्रथमतो वेदेन जैमनये स्वार्थ उपदर्शितः पश्चात्तेनास्मभ्यमुपदिष्ट इति, तदप्यसत्, वेदस्य हि यदि स्वार्थोपदर्शने शक्तिः ततोऽस्मभ्यमपि स्वार्थं कि नोपदर्शयति?, तस्माज्जैमनयेऽपि न तेन स्वार्थोदर्शितः, किन्तु स वेदमुखेनात्मानमेवार्थनियमस्रष्टारमुपदर्शितवान्, यथा कश्चित्केनचित्ष्टः-को मार्गः पाटलिपुत्रस्य?, स प्राह--एष स्थाणुर्दृश्यमाणो वक्ति-अयं मार्गः पाटलिपुत्रस्य, तत्र न स्थाणोर्वचन -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org