________________
मूलं-३
२७ यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सर्वज्ञोऽयमिति व्यवहारः?, उच्यते, पृष्टचिन्तित-. सकलपदार्थप्रकाशनात्. तथाहि-यद् यद् भगवान् पृच्छ्यते यच्च यच्च स्वचेतसि प्रष्टा चिन्तयति तत्तत्सर्वं प्रत्ययपूर्वमुपदिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति, तेन यदुच्यते भट्टेन
'सर्वज्ञोऽसाविति ह्येतत्, तत्कालेऽपि बुभुत्सुभिः ।
तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम्॥१।। इति, तदपास्तं द्रष्टव्यम्, पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात, नन्वेवं व्यवहारतो निश्चयो न निश्चयतो, निश्चयतो हि तदा सर्व्ववेदी विदितो भवति यदा तद्ज्ञेयं सर्वं विदित्वा सर्वत्र संवादो गृह्यते, न चैतत्कर्तुं शक्यम्, अथैकत्र संवाददर्शनादन्यत्रापि संवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाक: सर्वोऽपि सर्वज्ञः प्राप्नोति, तस्याप्येकदेशसंवाददर्शनाद्, आह
___ "एकदेशपरिज्ञानं, कस्य नाम न विद्यते?।
- न ह्येकं नास्ति सत्यार्थं, पुरुषे बहुजल्पिनि॥" तदयुक्तम्, व्यवहारतोऽपि निश्चयस्य सम्यग्निश्चयत्वात्, वैयाकरणादिनिश्चयवत्, तथाहि- . वैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निश्चीयते, एवं पृष्टचिन्तितार्थप्रकाशनात् सर्वज्ञोऽपि, न चैवं मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टेषु चिन्तितेषु चार्थेषु संवादायोगात्, निपुणेन च प्रतिपत्रा भवितव्यम्, अथ वैयाकरणोऽन्येन वैयाकरणेन सकलव्याकरणशास्त्रार्थसंवादनिश्चयतोऽपिज्ञातुं शक्यते, ननु सर्बज्ञोऽप्यन्येन सर्वज्ञेन यथावत् ज्ञातुं शक्यत एवेति समानम्, अथ तदानीमन्येन सर्वज्ञेन निश्चयतो विज्ञायताम् इदानीं तु स कथं ज्ञायते?, उच्यते, इदानीं तु सम्प्रदायादव्याहतप्रवचनार्थप्रकाशनाच्च, यदप्ववादीत्-'ऋषभः सर्वज्ञो वर्द्धमानस्वामी सर्वज्ञ इत्यादिरर्थवादः प्राप्नोतीत्यादि' तदप्यसारम्, आगमे ह्यं कल्पो यो यः सर्वज्ञ उत्पद्यते तेन तेन तत्तकल्पवर्तिनां तीर्थकृतां सर्वेपामप्यवश्यं चरितानि वक्तव्यानि, ततो न ऋषभाद्यभिधानमर्थवादः, यदप्यभिहितं-'नाप्युपमानप्रमाणगम्य इत्यादि,' तदप्ययुक्तम्, एकं सर्वशं यदा व्यवहारतो यथावद्विनिश्चित्यान्यमपि सर्वज्ञं व्यवहारतः परिज्ञाय एषोऽपि सर्वज्ञ इति व्यवहरति तदा कथं नोपमानप्रमाणविषयः?, अर्थापत्तिगम्योऽपि भगवान्, अन्यथाऽऽगमार्थस्य परिज्ञानासम्भवात्, न खल्वतीन्द्रियार्थदर्शनमन्तरेणागमस्यार्थोऽतीन्द्रियः, पुरुषमात्रेण यथावदवगन्तुं शक्यते, तत आगमार्थपरिज्ञानान्यथानुपपत्त्या सर्वज्ञोऽवश्यमभ्युपगन्तव्यः एतेन यदुक्तं प्राक्-'किमदानी सर्वज्ञेन?,आगमादेव धर्माधर्मव्यवस्थासिद्धे'रिति, तत्प्रतिक्षिप्तमवसेयं, सर्वज्ञमन्तरेणागमार्थस्यैव सम्यक् परिज्ञानासम्भवात्,
यच्चोक्तम्-'सर्वं वस्तु जानाति भगवान् केन प्रमाणेने त्वादि, तत्र प्रत्यक्षेणेति पक्षः, तदपि चप्रत्यक्षमतीन्द्रियमवसेयम्, ननुतत्राप्युक्तम्-'तस्यास्तित्वेप्रमाणाभावादि'ति, उक्तमिदमयुक्तं तूक्तम्, तदस्तित्वेऽनुमानप्रमाणसद्भावाद्, तच्चानुमानमिदं-यत्तारतम्यवत् तत्सर्वान्तिमप्रकर्ष-- भाक्, यथा परिमाणं, तारतम्यवच्चेदं ज्ञानमिति, न चायमसिद्धो हेतुः, तथाहि-दृश्यते प्रतिप्राणि प्रज्ञामेधादिगुणपाटवतारतम्यं ज्ञानस्य, ततोऽवश्यमस्य सर्वान्तिमप्रकर्षेण भवितव्यम्, यथा परिमाणस्याकाशे, सर्वान्तिमप्रकर्षश्च ज्ञानस्य सकलवस्तुस्तोमप्रकाशत्वं, अथ यद्विषयः तरमभाव: सर्वान्तिमप्रकर्षोऽपि तद्विषय एव युक्तः, तरतमभावश्चेन्द्रियाश्रितस्य ज्ञानस्योपलब्धः, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org