SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २७२ अनुयोगद्वार-चूलिकासूत्रं उपयुक्त आगमतो भावावश्यकम्, इदमुक्तं भवति-आवश्यकपदार्थज्ञस्तञ्जनितसंवेगेन विशुद्धयमानपरिणामस्तत्र चोपयुक्तः साध्वादिरागमतो भावावश्यकम्, आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्यात्र सद्भावत्, भावावश्यकता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्ते, अथवाऽऽवश्यकोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य इति 'सेत'मित्यादि निगमनम्। अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह मू.(२५) से किंतं नोआगमतो भावावस्सयं?, २ तिविहं पन्नत्तं, तंजहा-लोइयं कुप्पावयणियं लोगुत्तरि। वृ.अथ किं तन्नोआगमतो भावावश्यकम्?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदनिर्णयार्थमाह- मू. (२६) से किं तं लोइयं भावावसयं?, २ पुव्वण्हे भारह अवरण्हे रामायणं, से तं लोइयं भावावस्सयं। वृ.अथ किं तल्लौकिकं भावावश्यकमिति?, आह-'लोइयं भावावस्सयं पुव्वण्हे' इत्यादि, लोके भवं लौकिकं यदिदं लोकः पूर्वाह्ने भारतमपराह्ने रामायणं वाचयतिशृणोति वा तल्लौकिकं भावावश्यकं, लोके हि भारतरामायणयोर्वाचनं श्रवणं वा पूर्वाह्नापराह्वयोरेव रूढं, विपर्यये दोषदर्शनात्, ततश्चेत्थमनयोर्लोकेऽवश्यकरणीयत्वादावश्यकत्वं, तद्वाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात्, भावत्वं तद्वाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुड्मलमीलनादिक्रियायुक्ता भवन्ति, क्रिया च नोआगमत्वने प्रागिहोक्ता, 'किरियाऽऽगमो नहोइ'त्तिवचनात, ततश्चक्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वपि भावनीयं, नोशब्दस्यात्र देशनिषेधवचनत्वाद्, देशे त्वागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्वात, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृणवन्ति वा तल्लौकिकं भावावश्यकमिति स्थितं, भावमाश्रित्याऽऽवश्यकं भावावश्यक भावश्चासावावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण से त'मित्यादि निगमनम्। उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्वितीयभेदनिरूपणार्थमाह मू. (२७) से किं तं कुप्पावयणियं भावावस्सयं?, २ जे इमे चरगचीरिंग जाव पासंडत्था इज्जंजलिहोनजपोंदुरुक्कनमोक्कारमाइआई भावावस्सयाइं करेंति से तु कुप्पावयणिअं भावावस्सयं। वृ. अत्र च निर्वचनमाह-'कुप्पावयणियं भावावस्सयं जे इमे'इत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेषं भवं कुप्रावनिकं भावावश्यकं, किं तद् ?, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरंइज्याञ्जलिहोमादीनि भावरूपाण्यावश्यकानि भावावश्यकानि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकमिति सम्बन्धः।। तत्र चरकादिस्वरूपं प्रागेवोक्तम्, इज्याञ्जल्यादिस्वरूपं तूच्यते-तत्र यजनमिज्या याग इत्यर्थस्तद्विषयो जलस्याञ्जलिः इज्याञ्जलिः यागदेवतापूजावसरभावीति हृदयम्, अथवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy