________________
मूलं - २२
२७१
त्वमित्थमस्य प्रशंसां कुर्वन् विवक्षितक्षितीश इव लक्ष्यसे, तथाहि - गिरिनगरवासी कश्चिदग्निभक्तो वणिक् पद्मरागरत्नानां गृहं भृत्वा प्रतिवर्ष वह्निना प्रदीपयति तं चाविवेकितया तन्नगरनरपतिर्लोकश्च श्लाघते - अहो ! धन्योऽयं वणिग् यो भगवन्तं हुतभुजमित्थमौदार्यक्त्यतिशयाद् रत्नैस्तर्पयति, अन्यदा च प्रबलपवनपटलप्रेरितस्तत्प्रदीपितदहनः सराजप्रासादं समस्तमपि तन्नगरं दहति स्म, असौ च राज्ञा दण्डितो नगराश्च निष्कामसितः, तदेव यथा राज्ञा तस्य प्रशंसां कुर्वता आत्मा नगरलोकश्च नाशितस्तथा त्वमपि अस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि, यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव् सपरिकरो निरपायतामनुभवसि, तथाहि अन्येन केनचिद् राज्ञा तथैव कुर्वन् कश्चिद् वणिगाकर्णितः, ततो नगरदाहापायदर्शिना क्षितीशेन अरण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च, एवं त्वमपीत्यादि, उपनयो गतार्थः, इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिताः - एष गणाधिपो महानिर्धर्मताऽऽस्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति ।
तदेवं तत् साध्वाभासवश्यकप्रकारं सर्वं लोकोत्तररिकं द्रव्यावश्यकमिति । निगमयन्नाह'से त' मित्यादि, तदेतल्लोकोत्तरिकं द्रव्यावश्यकं एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति- 'से त 'मित्यादि, एतत्समर्थने चनो आगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति-'से तं नोआगमतो' इत्यादि, एतत्समर्थने च यत् प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो निगमयति'से तं दव्वावस्सय' मिति, तदेतत् द्रव्यावश्यकं समर्थितमित्यर्थः ।
,
उक्तं सप्रपञ्चं द्रव्यावश्यकं, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह
मू. ( २३ ) से किं तं भावावस्सयं ? २ दुविहं पत्रत्तं, तंजहा-आगमतो अ नोआगमतो अ । वृ. अथ किं तद् भावावश्यकमिति, अत्र निर्वचनमाह - 'भावावस्सयं दुविह' मित्यादि, वक्तृविवक्षितपरिणामस्य भवनं भावः, उक्तं च
44
'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्द्रनाक्रियाऽनुभवात् ॥”
व्याख्या:- वक्तृविवक्षितक्रियायाः - विवक्षितपरिणामस्य इन्दनादेरनुभवनम् - अनुभूतिस्तया युक्तो योऽर्थः स भावतद्वतोरभेदोपचाराद्भावः सर्वज्ञैः समाख्यातः, निदर्शनमाहइन्द्रादिवदित्यादि, यथा इन्दनादिक्रियानुभवात्, परमैश्वर्यादिपरिणामेन परिणत्वादिन्द्रादिर्भाव उच्यत इत्यर्थः, इत्यार्यार्थः ।
भावश्चासो आवश्यकं च भावमाश्रित्य वा आवश्यकं भावावश्यकं, तच्च द्विविधं प्रज्ञप्तं, तद्यथा-आगमतः- आगममाश्रित्य नोआगमतः - आगमाभावमाश्रित्य । तत्राऽऽद्यभेदनिरूपणार्थमाह
मू. ( २४ ) से किं तं आगमतो भावावस्सयं ? २ जाणए उवउत्ते, से तं आगमतो भावावस्सयं । वृ. अथ किं तदागमतो भावावश्यकम् ?, अत्राह - 'आगमओ भावास्सयं जाणए' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org