________________
२७०
अनुयोगद्वार-चूलिकासूत्रं निरनुकंपा हया इव उद्दामा गया इवनिरंकुसा घट्ठा मट्ठातुप्पोट्ठा पंडुरपडपाउरणा जिनानमणाणाए सच्छंद विहरिऊणं उभओकालं आवस्सयस्स उवट्ठति, से तं लोगुत्तरिअंदव्वावस्सयं, से तं जाणयस्सरीरभविअसीरवइरित्तं दव्वावस्सयं, से तं नोआगमतो दव्वावस्सयं, से तंदव्वावसयं।
व.अथ किं तल्लोकोत्तरिकं द्रव्यावश्यकम्?, अत्र निर्वचनमाह-लोकस्योत्तराः-साधवः, अथवा लोकस्योत्तरं-प्रधानं लोकोत्तरं-जिनशासनं तेषु तस्मिन् वा भवुलोकोत्तरिकं, द्रव्यावश्यकमिति व्याख्यातमेव, किं पुनस्तदित्याह-'जे इमे'इत्यादि, य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकायप्रतिक्रमणायोपतिष्ठन्ते तत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक्तं द्रव्यावश्यकमिति समुदायार्थः।
इदानीमवयवार्थ उच्यते-तत्र श्रमणाः-साधवस्तेषां गुणा-मूलोत्तरगुणरूपाः, तत्र जीववधविरत्यादयो मूलगुणा: पिण्डविशुद्धयादयस्तूत्तरगुणाः, तेषु मुक्तो योगो-व्यापारो यैस्ते सर्वधनादेराकृतिगणत्वात्, श्रमणगुणमुक्तयोगिनः, एते जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित् सानुकम्पा अपि स्युरित्याह-षट्सु कायेषु-पृथिव्यादिषु विषये निर्गता-अपगता अनुकम्पा-मन:सार्द्रता येभ्यस्ते तथा, निरनुकम्पताचिह्नमेवाऽऽह-हया इव-तुरगा इव उद्दामा:चरणनिपातजीवोपमर्दनिरपेक्षत्वाद् द्रुतचारिण इत्यर्थः, कीमित्येवंभूतास्ते इत्याह-यतो गजा इव-दुष्टद्विरदा इव निरंकुशाः गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः, अत एव 'घट्ट'त्ति येषां जो श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचारात् घृष्टाः, तथा 'मट्ठ'त्ति तैलोदकादिना येषां केशाः शरीरं वा मृष्टं ते तथैव मृष्टाः, अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वत्प्रत्ययलोपान्मृष्टाः, तथा 'तुप्पोट्ठ'त्ति तुप्रा-मेक्षिता मदनने वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रयोष्ठाः, तथा मलपरीषहा(ह)सहिष्णुतादूरीकृतत्वात् पाण्डुरो-धौतः पट:-प्रावरणं येषां ते तथा, 'जिनानामनाज्ञया स्वच्छन्दं विहृत्य' तीर्थकराज्ञाबाह्याः स्वस्वरुच्या विविधचेष्टाः कृत्वा तत्रोभयकालं-प्रभातसमयेऽस्तमयसमये च चतुर्थ्यर्थे षष्ठीतिकृत्वा आवश्यकाय-प्रतिक्रमणायोपतिष्ठन्ते तत्तेषामावश्यकं लोकोत्तरिक द्रव्यावश्यकम्, अत्र तु द्रव्यावश्यकत्वं भावशून्यत्वात् तत्फलाभावाच्चाप्रधानतयाऽवसेयं नोआगमत्वमपि देशे क्रियालक्षणे आगमाभावनोशब्दस्य चात्र देशप्रतिषेधवचनत्वादिति। ___ अत्र च लोकोत्तरिके द्रव्यावश्यके उदाहरणम्-वसन्तपुरे नगरेऽगीतार्थोऽसंविग्नो गच्छ एको विचरति, तत्र च श्रमणगुणमुक्तयोगी संविग्नाभासः साधुरेकः प्रतिदिनं पुर:कर्मादिदोषदुष्टमनेषणीयं भक्तादि गृहीत्वा महता संवेगेन प्रतिक्रमणकाले आलोचयति, तस्मै न गच्छाचार्योऽगीतार्थत्वात् प्रायश्चित्तं प्रयच्छन् भणति-पश्यत अहो! कथमसौ भावमगोपयन् अशठतया सर्वं समालोचयति ?, सुखं हि आसेवना क्रियते, दुखं चेत्थमालोचयितुं, तस्मादशठतयैव शुद्धो ह्यसौ, तथा च तं प्रशस्यमानं दृष्टवा तत्र अन्येऽप्यगीतार्थश्रमणाः प्रशंसन्ति चिन्तयन्ति च-गुरुोश्चेदित्थमालोच्यते तहि दोषासेवनायामसकृत् कृतायामपि न कश्चिद्दोषः, आलोचनाया एव साध्यत्वाद्, एवं चान्यदा तत्र संविग्नगीतार्थः, साधुः कश्चिदायातः तेन च प्रतिदिनं तमेव व्यतिकरमालोक्य सूरिरुक्तः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org