SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मूलं-२१ २६९ परिधानाश्चर्मखण्डीकाः, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते चर्मखण्डिकाः, ये भिक्षामेव भुञ्जते न तु स्वपरिगृहीतगोदेग्धादिकं ते भिक्षोण्डाः; सुगतशासनस्था इत्यन्ये, पाण्डुराङ्गाभस्मोद्धूलितगात्राः, विचितपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचचितवृषभकोपायत: कणभिक्षाग्राहिणो गोतमाः, गोचर्यानुकारिणो गोव्रतिकाः, ते हि वयमपिकिल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति भुञ्जानाभिस्तद्वदेव तृणपत्रपुष्पफलादि भुञ्जन्ति, तदुक्तम् "गावीहि समं निग्गमपवेसठाणासणाइ पकरंति। .. भुंजंति जहा गावी तिरिक्खवासं विभावंता।".. गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वचः "गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । तं पालयन्ति ये धीराः, क्लीबा: पाषण्डमाश्रिताः ॥” इति याज्ञवल्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्ति(ये)ते धर्मचिन्तकाः, देवताक्षितीशमातापितृतिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धा-वैनयिकाः, पुण्यपपरलोकाधनभ्युपगमपरा अक्रियावादिनो विरुद्धाः, सर्वपाषण्डिभिः सहविरुद्धाचारित्वाद्, अत्राऽऽह-तनु यद्येते पुण्याद्यनभ्युपगमपराः कथंतर्वेषां वक्ष्यमाणमिन्द्राद्युपलेपनंसंभवति?, पुण्यादिनिमित्तमेव तस्य सम्भवात्, सत्यं, किन्तु जीविकादिहेतोस्तेषामपि तत्संभवतीत्यदोषाः । __ प्रथममेवाऽऽद्यतीर्थकरकाले समुत्पन्नत्वात् प्रायोवृद्धकाले दीक्षाप्रतिपत्तेश्च वृद्धा:-तापसाः, श्रावका-ब्राह्मणाः प्रथमं भरतादिकाले श्रावकाणामेव सतां पश्चाद् ब्राह्मणत्वभावाद्, अन्ये तु वृद्धश्रावका इत्येकमेवं पदं ब्राह्मणवाचकत्वेन व्याचक्षते, एतेषां द्वन्द्वसमासः, प्रभृतिग्रहणात् परिव्राजकादिपरिग्रहः, पाषण्डं-व्रतं तत्र तिष्ठन्तीति पाषण्डस्थाः, 'कल्लंपाउप्पभायाए'इत्यादि, पूर्ववद् यावत्तेजसा ज्वलतीति। "इंदस्सवे'त्यादि, तत्रेन्द्रः-प्रतीतः, स्कन्द:-कार्तिकेयः, रुद्रो-हरः, शिवस्त्वाकारविशेषधरः स एव व्यन्तरविशेषो वा, वैश्रवणो-यक्षनायकः, देवः-सामान्यः, नागो-भवनपतिविशेषः, यक्षभूतौ व्यन्तरविशेषौ, मुकुन्दो-बलदेवः, आर्या-प्रशान्तरूपा, दुर्गा सैव महिषारूढा, तत्कुट्टनपरा कोट्टक्रिया, अत्रोपचाररादिन्द्रादिशब्देन तदायतनमप्युच्यते, अतस्तस्येन्द्रारुपलेपनसम्मार्जनावर्षणपुष्पधूपगन्धमाल्यादीनि द्रव्यावश्यकानि कुर्वन्ति, तत्र उपलेपनं-छगणादिना प्रतीतमेव, सम्मार्जनं-दण्डपुञ्छनादिना, आवर्षणं-गन्धोकादिना, शेषं गतार्थं, तदेवं य एते चरकादय इन्द्रादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकम्, अत्र द्रव्यात्वमावश्यकत्वं नोआगमत्वं च लौकिकद्रव्यावश्यकोक्तमिव भावनीयम्। निगयमनाह-'से त'मित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं कुप्रावचनिकं द्रव्यावश्यकमित्यर्थः, उक्तो नोआगमतो द्रव्यावश्यकान्तर्गत-ज्ञशरीरभव्यशरीव्यतिरिक्तद्रद्रव्यावश्यकद्वितीयभेदः अथ तृतीयभेदनिरूपणार्थमाह मू. (२२) से किं तं लोगुत्तरि दव्वावस्सयं?, २ जे इमे समणगुणमुक्कजोगी छक्काय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy