________________
२६८
अनुयोगद्वार-चूलिकासूत्रं 'मुहधोवणे'त्यादि, मुखधावनं च दन्प्रक्षालनं च तैलं च फणिहश्च सिद्धार्थश्च हरितालिका च आदर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः येषां स्नानाभरणपरिधानादीनां तानि तथा, तत्र फणिह:-कङ्कतकस्तं मस्तकादौ व्यापारयन्ति, सिद्धार्थाः-सर्षपाः, हरितालिका-दूर्वा, एतद्द्वयं मङ्गलार्थं शिरसि प्रक्षिपन्ति, आदर्श तु मुखादि निरीक्षन्ते, धूपेन वस्त्रादि धूपयन्ति, अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यम्, अथवा विकसितानि पुष्पाणि, तान्येवाविकसितानि माल्यम्, एतेषां च मस्तकादिषूपयोगः, शेषं स्वरूपत उपयोगतश्च प्रतीतमेव,
एतानि द्रव्यावश्यकानि कृत्वा ततः पश्चाद्राजकुलाटी गच्छन्ति । अत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्राऽऽरमन्ति स विविध पुष्पाजात्युपशाभित आरामः, वस्त्राभरणादिसमलंकृतविग्रहा: सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितमुद्यानं, भारतादिकथानविनोदेन यत्र लोकस्तिष्ठति सा सभा, शेषं प्रतीतम्।
अत्राह-ननु राजादिभिः प्रभातेऽवश्यं क्रियत इति व्युत्पत्तिमात्रेणाऽऽवश्यकत्वं भवतु मुखधावनादीनां, द्रव्यत्वं तु कथममीषां?, विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य भाविनोवा भावस्य ही त्यादिवचनात. न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं भवन्ति, सत्यं, किन्तु 'भूतस्य भाविनोवेत्यायेवन मन्तव्यं, किंतर्हि?,"अप्पाहन्नेविदव्वसद्दोत्ती(त्थी)"ति वचनादप्रधानवाचकोऽपिद्रव्यशब्दोऽवगन्तव्यः, अप्रधानानि चमोक्षकारणभावावश्यकापेक्षया संसारकारणानि राजदिमुखधावनादीनि, ततश्च द्रव्यभूतानिअप्रधानभूतान्यावश्यकानिद्रव्यावश्यकानि एतानीत्यदोषः, नोआगमत्वं चेहाप्यागमाभावानोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण, निगमयन्नाह-'सेतं लोइय'मित्यादि, तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः ।
उक्तो नोआगमतो द्रव्यावश्यकान्तर्गतज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यक (स्य)प्रथमो भेदः । अथ द्वितीयभेदनिरूपणार्थमाह
मू.(२१)से किंतंकुप्पावयणिअंदवावस्सयं?, २ जे इमे चरगचीरिगचम्मखंडिअभिक्खोंडपंडुरंगगोअमगोव्वतिअगिहिधम्मधम्मचिंतगअविरुद्धविरुद्धवुड्डसावगप्पभितओ पासडत्था कल्लंपाउप्पभायाए रयणीए जाव तेअसा जलते इंदस्स वा खदंस्स वारुदस्सवा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूअस्स वा मुगुंदस्स वा अज्जाए वा दुग्गए वा कोट्टकिरियाए वा उवलेवणसंमज्जणआवरिसणधूवपुप्फगंधमलाइआइंदव्वावस्सयाई करेंति, से तं कुप्पावयणियं दव्वावस्सयं। ....
वृ. अथ किं तत् कुप्रावचनिकं द्रव्यावश्यकं?, अत्र निर्वचनम् - 'कुप्पावयणियं दव्वावस्सयं जे इमे' इत्यादि, कुत्सितं प्रवचनं येषां ते कृप्रवचनास्तेषामिदं कृप्रावचनिकं द्रव्यावश्यकं, किं पुनस्तदित्याह-'जे इमे' इत्यादि, य एते चरकचीरिकादयः प्रभातसमये इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः।
तत्र धाटिबाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः, रथ्यापतितचीरपरिधानाश्चीरिकाः अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः, चर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org