SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ मूलं-२० - २६७ गच्छन्ति से तं लोइयं दव्वावस्सयं । वृ.अत्र निर्वचनमहा-'लोइय'मित्यादि, लोके भवं लौकिकं शेषं तथैव, अत्र य एते राजेश्वरतलवरादयः प्रभातसमये मुखधावनादि कृत्या ततः पश्चाद्राजकुलादौ गच्छन्ति, तत्तेषां सम्बन्धि मुखधावनादि लौकिकं ज्ञशरीरभव्यातिरिक्तं द्रव्यावश्यकमिति समुदायार्थः । तत्र राजा-चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च ईश्वरो-युवराजः सामान्यमण्डलिकोऽमातयश्च, अन्ये तु व्याचक्षते-अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः, परितुष्टनरपतिप्रदत्तरत्नालंकृतसौवर्णपट्टविभूषितशिरास्तलवरः, यस्यो पार्श्वत आसन्नपरंग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नजनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः, कतिपयकुटुम्बप्रभुः कौटुम्बिकः, इभो-हस्ती तत्प्रमाणं द्रव्यमर्हतीतीभ्यः-यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वा इभ्य इत्यर्थः, श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी, हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, "गणिमं धरिमं मेज्जं पारिच्छेनं च दव्वजायं तु । धेत्तूणं लाभत्थं वच्चइ जो अनदेसं तु ।।१।। निवबहुमओ पसिद्धो दीनानाहाण वच्छलो पंथे। सो सत्थवाहनामं धनोव्व लोघ समुव्वहई ।।२।।" एतल्लक्षणयुक्तः सार्थवाहः, प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः, 'कल्लं पाउप्पभायाए' इत्यादि, कल्यमिति विभक्तिव्यत्ययात् सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्थाः प्राह'पाउ' इत्यादि, प्रादुः-प्राकाश्ये, ततश्च प्रकाशप्रभातायां रजन्यां, किञ्चिदुपलभ्यमानप्रकाशामिति भावः, तदनन्नतरं सुविमलायां' तस्मामेवकिञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये, तदनन्तरं पाण्डुरे प्रभाते, कथंभूत इत्याह-'फुल्लोत्पलकमलकोमलोन्मीलिते' फुलं-विकसितं तच्च तदुत्पलं च फुल्लोत्पलं कमलो-हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कोमलम्-अकठोरं दलानां नयनयोश्चयोन्मीलितम्-उन्मीलनं यत्र प्रभाते तत् तथा (तस्मिन्), अनेन च प्रागुक्ताया: सुविमलताया: वक्ष्यमाणसूर्योदयस्यचान्तरालभाविनी पूर्वस्यां दिश्यरुणप्रभावस्थामाह, तदनन्तरं 'उट्ठिए सूरिए'त्ति अभ्युद्गते आदित्ये, कथम्भूते इत्याह_ 'रक्ताशोकप्रकाशकिंशुकशुकमुखगुञ्जार्धरागसदृशे' रक्ताशोकप्रकाशस्य किंशुकस्यपुष्पितपलाशस्य शुकमुखस्य गुञ्जार्धस्य च रागेण सदृशो यः स तथा तस्मिन्, आरक्ते इत्यर्थः, तथा 'कमलाकरनलिनीखण्डबोधके' कमलानामाककरा-उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानितेषां बोधको यः स तथा तस्मिन्, पुनः किंभूते तस्मिन्नित्याहसहस्ररश्मी, दिनं करोतीति दिनकरस्तस्मिन्, तेजसा ज्वलति सति, तत्रैवैते भावाः सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम्, अनेन चोत्तरोत्रकालभाविना आवश्यककरणकालविशेषणकलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह, तथाहिकेचित् प्रकृष्टोद्यमिनः किञ्चित् प्रकाशमानायां रजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति, मध्यमोद्यामिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy