________________
२६६
अनुयोगद्वार-चूलिकासूत्रं शरीरं, तदेव भाविभावावश्यककारणत्वात् द्रव्यावश्यकं, भव्यशरीर द्रव्यावश्यकं, किं पुनस्तदित्यत्रोच्यते-यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेन आवश्यकमित्येतत् पदं आगामिनि काले शिक्षिष्यते न तावच्छिक्षते तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः।
साम्प्रतमयवार्थ उच्यते-तत्र यः कश्चिद् ‘जीवो' जन्तुः योन्या-योषिदवाच्यदेशलक्षणायाः परिपूर्णसमस्तदेहो जन्मत्वेन-जन्मसमयेन निष्क्रान्तो न पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः, अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद् वा समुच्छ्यस्तेन आत्तेन आदत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत्, सेयकाले'त्ति छान्दसत्वादागामिनि काले शिक्षिष्यते-अध्येष्वते साम्प्रतं तं न तावद्यापि शिक्षते, तञ्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकं ।
नोआगमत्वं वात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात्, नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वात् । अत्राऽऽह-नन्वाश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम्?, न हि कार्याभावे वस्तुनः कारणत्वं यज्यते, अतिप्रसङ्गात्, अतः कथमस्यद्रव्यावश्यकता? सत्यं, किंतु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्याऽस्य द्रव्यावश्यकत्वमुच्यते, तथा च तदनुसारिणः पठन्ति'भाविनि भूतवदुपचार' इति, अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्न कारयति-यथा कोऽत्रदृष्टान्त इति, निर्वचनमाह-यथाऽयं मधुकुम्भो भविष्यतीत्यादि, एतदुक्तं भवति-यथा मधुनि घृते वा प्रक्षेप्तुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि छोकेऽयं मधुकुम्भो धृतकृम्भो वेत्यादिः दृश्यते, तथाऽत्राप्यवश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्यावश्यकत्वमुच्यत इति भावः, निगमयन्नाह
'सेत्त'मित्यादि, तदेतद्भव्यशरीरद्रव्यावश्यकमिति । उक्तो नोआगमो द्रव्यावश्यकद्वितीयभेदः तृतीयभेदनिरूपणार्थमाह
मू.(१९) से किं तं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं?, २ तिविहं पन्नत्तं, तंजहा-लोइअंकुप्पावयणियं लोउत्तरि।
वृ.अथ किं तत् ज्ञशरीरभव्यशरीव्यतिरिक्तं द्रव्यावश्यकम्?, निर्वचनमाह-'जाणगरसीरभविसरीरवइरित्ते दव्वावस्सए तिविहे' इत्यादि, यत्र ज्ञशरीरभव्यशरीरयोः सम्बन्धि पूर्वोक्तं लक्षणं न घटते तत् ताभ्यांव्यतिरिक्तं-भिन्नद्रव्यावश्यकमुतच्च त्रिविधं प्रज्ञप्तं, तद्यथा-लौकिकं कुप्रावचनिकं लोकोत्तरिकं च । तत्र प्रथमभेदं जिज्ञासुराह
मू.(२०) से किं तं लोइयं दव्वावस्सयं?, २ जे इमे राईसरतलवरमाबिअइन्भसेटिसेनावइसत्थवाहप्पभितिओ कलं पाउप्पभायाए रयणीए, सुविमलाए फुल्लप्पलकमलकोमलुम्मिलिअंमि अहापंडुरे पभाए रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसे कमलागरनलिनिसंडबोहए उट्ठिअंमि सूरे सहस्सरस्सिमिदिनयरे तेअसा जलंते मुहधोअनदंतपक्खालणतेल्लफणिहसिद्धत्थयहरिआलिअद्दागधूवपुप्फमल्लगुधतंबोलवत्थाइआई दव्वावस्सयाइं करेंति, ततो पच्छा रायकुलं वा देवकुलं वा आरामं वा उज्जानं वा सभं वा पवं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org