SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ मूलं-२७ २७३ यजनमिज्या-पूजा गायत्र्यादिपाठपूर्वकं विप्राणां सन्ध्यार्चनमित्यर्थः, तत्राञ्जलिः इज्याञ्जलिः, अथवा देशीभाषया इज्येति माता तस्या नमस्कारविधौ तद्भक्तः, क्रियमाणः, करकुड्मलमीलनलक्षणोऽञ्जलिरिज्याञ्जलिः, होम: अग्निहोत्रिकैः क्रियमाणमगिहवनं जपो-मन्त्राद्यभ्यासः 'उंदुरुक्क'त्ति देशीवचनं उन्दु-मुखं तेन रुक्कं-वृषभादिशब्दकरणमुन्दुरुक्कं देवतादिपुरतो वृषभगर्जितादिकरणमित्यर्थः, नमस्कारो-नमो भगवते दिवसनाथायेत्यादिकः, एतेषां द्वन्द्वे इज्याञ्जलिहोमजपोन्दुरुक्कनमस्कारास्ते आदिर्येषां तानि तथा, आदिशब्दात्, स्तवादिपरिग्रहः, एतेषां च चरकादिभिरवश्यं क्रियमाणत्वादावश्यत्वम्, एतत्कर्तृणां च तदर्थोपयोगश्रद्धादिपरिणामसद्भावात् भावत्वम्, अन्यच्च चरकादीनां तदार्थोपयोगलक्षणो देश आगम: देशस्तु करशिरोव्यापारादिक्रियालक्षणो नोआगमस्ततो देश आगमाभावमाश्रित्य नोआगमत्वमगन्तव्यं, नोशब्दस्येहापि देशनिषेधपरत्वात्, तस्माच्चरकादयस्तदुरपयुक्ता यथावसरं यदवश्यमिज्याञ्जल्यादि कुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, भावावश्यकशब्दस्य च व्युत्पत्तिद्वयं तथैव, 'सेत'मित्यादि निगमनम्। उक्तो नोआगमतो भावावश्यकद्वितीयभेदः अथ, तृतीयभेदनिरूपणार्थमाह मू.(२८) से किंतं लोगंतरिअंभावावस्सयं?, २ जण्णं इमे समणे वा समणी वा सावओ वा साविआवा तच्चित्ते तम्मने तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवउत्तेतदप्पिअकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मनं अकरेमाणे उभओकालं आवस्सयं करेंति सेतंलोगुत्तरियं भावावस्सयं, से तं नोआगमतो भावावस्सयं, से तं भावावस्सयं।। वृ.अत्र निर्वचनम्-'लोउत्तरियं भावावस्सयं जं न'मित्यादि जं नं'ति नमिति वाक्यालङ्कारे यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमणः-साधुः, श्रणी-साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावक:-श्रमणोपासकः, श्राविका-श्रमणोपासिका, वाशब्दाः समुच्चायार्थाः, तस्मिन्नेवाऽऽवश्यके चित्तं-सामान्योपयोगरूपं यस्येति स तच्चितः, तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्याशुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसितः-इहाध्यवसायोऽध्यवसितं, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवाऽऽवश्यकेऽध्यवसितंक्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसायः-तस्मिन्नेवाऽऽवश्यके तीव्र-प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा, तथा 'तदर्थोपयुक्तः' तस्य -आवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः-प्रशस्ततरसंवेगविशुद्धयमानः तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, 'तथा तर्पितकरण: करणानि-तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्आवश्यके यथोचित्तव्यापारनियोगेनापितानि-नियुक्तानि तानि येन सतथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितः तस्य-आवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानुरूपा तया भावितः-अङ्गाङ्गीभावेन परिणतयावश्यका30/18 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy