________________
मूलं-१५
२६३ नुपयोक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति 'पुहुत्तं नेच्छइ'त्ति अतीतानागतभेदतः परकीयभेदतश्च 'पृथकत्वं' पार्थक्यं नेच्छत्यसौ, किं तहि ?, वर्तमानकालीनं स्वगतमेव चाभ्यपैति, तच्चैकमेवेति भावः, 'तिण्हं सद्दनयाण'मित्यादि, शब्दप्रधाना नयाः शब्दनयाःशब्दसमभिरूद्वैवंभूताः, ते हि शब्दमेव प्रधानमिच्छन्तीति, अर्थं तु गौणं, शब्दवशेनैवार्थप्रतीतेः, तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीत्यर्थः, 'कम्हे'ति कस्मादेवमुच्यते इत्याह_ 'जई'त्यादि, यदि ज्ञायकस्तीनुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद, इदमत्र हृदयम्आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतम्, एतच्चामी न प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्तः?, अनुपयुक्तश्चेत् कथं जानाति?, ज्ञानस्योपयोगरूपत्वात्, यदप्यागमकारणत्वादात्मदेहादिकमागत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगमपरत्वात्, तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति, निगमयन्नाह-'सेत'मित्यादि, तदेतदागमतो द्रव्यावश्यकम्।
उक्तं सप्रचञ्चमागमतो द्रव्यावश्यकमिदानीं नोआगमतस्तदुच्यते
म.(१६) से किं तं नोआगमओ दव्वावस्सयं?, २ तिविहं पन्नत्तं, तंजहा-जाणयसरीरदव्वावस्सयं भविअसरीरदव्वावस्सयं जाणयसरीरभविअसरीरवतिरित्तं दव्वावस्सयं।
व.अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः, उत्तरमाह-'नोआगमओ दव्वावस्सयं तिविहं पन्नत्त' मित्यादि, नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेध देशनिषेधे वा वर्तते, यत उक्तं पूर्वमुनिभिः
___ "आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे।
सव्वे जह नसरीरं भवस्स य आगमाभावा।" व्याख्या-आगमस्य-आवश्यकादिज्ञानस्य सर्वनिषधे वर्त्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्त्तते, तत्र 'सव्वे'त्ति सर्वनिषेधे उदाहरणमुच्यते, यथेत्युपप्रदर्शने, 'णसरीरं'ति ज्ञानस्यजानतः शरीरं ज्ञशरीरं नोआगमत इह द्रव्यावश्यकं, 'भव्यस्स च' योग्यस्य यच्छरीरं तदपि नोआगमत इह द्रव्यावश्यकं, कुत इत्याह-आगमस्य-आवश्यकादिज्ञानलक्षणस्य सर्वथाऽभावाद्, इदमुक्तं भवति-ज्ञशरीरं भव्यशरीरंचानन्तरमेव वक्ष्यमाणस्वरूपं नोआगमतः-सर्वथा आगमाभावमाश्रित्य द्रव्यावश्यकमुच्यते, नोशब्दस्यात्र पक्षे सर्वनिषेधवचनत्वादिति गाथार्थः।। देशप्रतिषेधवचनेऽपि नोशब्दे उदाहरणं यथा- ।
"किरियागमुच्चरंतो आवासं कुणइ भावसुनो उ।
किरियाऽऽगमो न होइ तस्स निसेहो भवे देसे॥" व्याख्या-क्रियाम्-आवर्तादिकां कुर्वन्नित्यध्याहारः, आगमंच वन्दनसूत्रादिकमुच्चाश्यन्, जडत्वाद, आगमस्य च ज्ञानरूपत्वाद, अतस्तस्याऽऽगमस्य देशे क्रियालक्षणे निषेधो भवति. क्रिया आगमो न भवतीत्यर्थः, अतो नोआगमत इति, इह किमुक्तं भवति?-देशे क्रियालक्षणे आगमाभावमाश्रित्य द्रव्यावश्यकमिदमिति गाथार्थः। तदेवं नोआगमतआगमाभावमाश्रित्य द्रव्यावश्यकं त्रिविधं प्रज्ञप्तं, तद्यथा-ज्ञशरीरद्रव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org