________________
२६४
अनुयोगद्वार-चूलिकासूत्रं वश्यकं, भव्यशरीरद्रव्यावश्यक, ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यावश्यकम्। तत्राऽऽद्यभेदं विवरीषुराह
मू.(१७)से किं तं जाणयसरीरदव्वावस्सयं?, २ आवस्सएत्ति पयत्थाहिगारजाणयस्स जंसरीरयं ववगयचुतचावितचत्तदेहं जीवप्पिजढं सिज्जागयं वा संथारगयं वा निसीहिआगयं वा सिद्धसिलातलगयंवा पासित्ता नं कोई भणेज्जा-अहो! णंइमेणं सरीरसमुस्सएणं जिनदिउणं भावेणं आवस्सएत्तिपयं आघवियं पन्नविअंपरूविअंदंसिअंनिदंसिअंउवदंसिअं, जहा को दिद्रुतो? अयं महुकुंभे आसी अयं घयकुंभे आसी, सेतं जाणयसरीरदव्वावस्सयं ।।
वृ. अथ किं तत् ज्ञशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह-'जाणगसरीरदव्वास्सयं आवस्सएत्ती'त्यादि, ज्ञातवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरं ज्ञस्य शरीरं ज्ञशरीरं, तदेव अनुभूतभावत्वाद् द्रव्यावश्यकं, किं तदित्याह-यच्छशरीरकं संज्ञायां कच् वपुरित्यर्थः, कस्य सम्बन्धीत्याह-"आवस्सएत्ती'त्यादि, आवश्यकमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गुह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि, कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह-व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तामित्यक्षरयोजना, इदानीं भावार्थः कश्चिदुच्यते-तत्र व्यपगतं अचेतनस्योच्छासाद्ययोग्यत्वादन्यथा लेष्ट्वादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंशस्तु स्वभाववादिभिः कैश्चित् स्वभावत एवाभ्युपगम्यते, तदपोहार्थमाह-च्यावितं-बलीयसा आयुःक्षयेण तेभ्यः परिभ्रंशितं, न तं स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वाद तत्प्रसङ्गाद्, एवं च सति कथंभूतं तदित्याहत्यक्तदेहं-'दिह उपचये'त्यक्तो देहः-आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात्, एवमुक्तेन विधिना जीवेन-आत्मना विविधम्-अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाद्, द्रव्यावश्यकम्, अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात्, नोशद्वस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भावः। . ननु यदि जीवविप्रमुक्तमिदं कथं तमुस्य द्रव्यावश्यकत्वं? लेष्टावदीनामपि तत्प्रसङ्गात, तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीतत्वसम्भवादित्याशङ्कयाह-'सेज्जागत'मित्यादि, यस्मादिदं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्टवा कोऽपि ब्रूयाद्-अहो! अनेन शरीरसमुच्छ्येण जिनदृष्टेन भावेन आवश्यकमित्येतत् पदं आगृहीतमित्यादि, यावदुपदर्शितमिती, तस्मादतीतवर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनां सम्भवाद् यथोक्तशरीरस्य द्रव्यावश्यकत्वं न विरुध्यते, लेष्ट्वदिदर्शने पुनर्नेत्थम्भूतः प्रत्ययः कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः, तेनैव करचरणोरुग्रीवादीपरिणामेनानन्तरमेवाऽऽवश्यककारणत्वेन व्यापृतत्वात्, तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकं, न लेष्ट्वदय इति भाव इति समुदायार्थः। __इदानीमवयवार्थ उच्यते-तत्र शय्या-महती सर्वाङ्गप्रमाणा तां गतं शय्यागतं शय्यास्थितमित्यर्थः, संस्तारोलघुकोऽर्धतृतीयहस्तमानस्तं गतं तत्र स्थमित्यर्थः, यत्र साधवस्तपःपरकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं प्रतिपन्नपूर्वाः प्रतिपद्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org