________________
२६२
अनुयोगद्वार-चूलिकासूत्रं इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च मूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम्
"नेगमसंगहववहार उज्जुसुए चेव होइ बोद्धव्वे ।
सद्दे य समभिरूढे एवंभूते य मूलनया।" तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह-'नेगमस्से'त्यादि, सामान्यविशेषादिप्रकारेण नैक: अपि तु बहवो गमा-वस्तुपरिच्छेदा यस्मासौ निरुक्तविधिना ककारस्य लोपात्रैगमः, सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः, तस्य-नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यक, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तौ आगमतो द्वै द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किं बहुना?, एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवत्तीनि नैगमस्यागमतो द्रव्यावश्यकानि, एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपं च वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्यह प्राधान्येन विविक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः ___ एवमेव ववहारस्सवि'त्ति व्यवहरणं व्यवहारो-लौकिकप्रवृत्तिस्वरूपस्तत्प्रधानो नयोऽपि व्यवहारः, तस्यापि 'एवमेव' नैगमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादि सर्वं वाच्यम्, इदमुक्तं भवति-व्यवहारनयो लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, न शेषान्, लोकव्यवहारे च जलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुत्वेन प्रतिपद्यतेऽसौ न सामान्यं, व्यवहारनुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति, अतो विशेषवादिनैगममतसाम्येनातिदिष्टः अत्र चादिशेनैयेष्टार्थसिद्धेग्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कत इति भावनीयम।
"संगहस्से'त्यादि, सर्वमपि भुवनत्रयान्तर्वति वस्तुनिकुरुम्बं संग्रह्णाति-सामान्यरूपतयाऽध्यवस्यतीति संग्रहस्तस्य मते एको वा अनेके वा अनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यकं द्रव्यावश्यकानि वा, तत्किमित्याह-'से एगे'त्ति तदेकं द्रव्यावश्यकम्, इदमत्र हृदयम्-संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधातु च-सामान्याद्विशेषा व्यतिरिक्ता स्युः अव्यतिरिक्ता वा स्युः? यद्याद्यः पक्षस्तहि न सन्त्यमि, निःसामान्यत्वात्, खरविषाणवत्, अथापर: पक्षस्तहि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत्, तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिव्यावश्यकानि तानि तत्सामान्यव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति।
'उज्जुसुयस्से'त्यादि, ऋजु-अतीतानागपतरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः, अयं हि वर्तमानकालभाव्येव वस्तु अभ्युपगच्छति, नातीतं विनष्टत्वानाप्यनागतमनुत्पन्नत्वाद्, वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् स्वधनवत्, परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदेत्तादिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org