________________
मूलं-१४
.२६१ अनुपयोगोस्तु भावशून्यता, तच्छ्न्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम्, अनुप्रेक्षा तूपयोगपूर्विकैव संभवति, अतस्तत्र वर्तमानो न तथेति भावार्थः ।
अत्राह-नन्वागमतोऽनुपयुक्तो घक्ता द्रव्यावश्यकमित्येतावतैवेष्टासिद्धैः शिक्षितादिश्रुतगुणसमुत्कीर्तनमनर्थकम्, अत्रोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं ज्ञापयति-यदुतैवंभूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति किं पुनः सदोषम्?, उयुक्तस्य तु स्खलितादिदोषदुष्टमपि निगदतः भावश्रुतमेव भवति, एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्य नुपयुक्तस्य तथाविधफलशून्या एव संपद्यन्ते, उपक्तस्य तु मतिवैकल्यादितः सदोषा अप्यमी कर्ममालापगमायैवेत्यलं विस्तरेण। __ अत्राह-ननु भवत्वेवं, किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो? येनोक्तमहीनाक्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धन्ते?, तथाहि-राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दार्थं विबुधविद्याधरनरनिवहः श्रेणिकश्च सपुत्रः समाययौ, ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तयां परिषदि कस्यचिद्विधरस्य गगनोत्पतनहेतुविद्यासम्बन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ पुनरुत्पतति पुनश्च निपतति, एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः-किमित्ययं महाभागः खेचरो विधुरतिपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतति?, भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यै वमवादीत्-भोः खेचर! यदि मां समानसिद्धिकं करोषि तदा त्वविद्याऽक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन, अभयकुमारस्य चैकस्यादपि पदादनेकपदाभ्यूहशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितम् खेचरस्य, सोऽपि संजातसंपूर्णविद्योइष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति, एष दृष्टान्तः, उपनयस्त्वयम्-यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं, तदुपरमे च व्यर्थेव विद्या, तथेहापि हीनाक्षरतायामर्थभेदस्तदभेदे क्रियाभदेस्तभेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमाधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः ।।
मू. (१५) नेगमस्स णं एगो अनुवउत्तो आगमओ एगं दव्वावस्सयं दोनि अनुवउत्ता आगमओ दोन्त्रि दव्वावस्सयाइं तिन्निअनुवउत्ता आगमओ तिन्नि दव्वावस्सयाइं एवं जावइआ अनुवउत्ता आगमओ तावइआई दव्वावस्सयाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अनेगो वा अनुवउत्तो वा अनुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा से एगे दव्वावस्सए, उज्जुसुअस्स एगो अनुवउत्तो आगमतो एगं दव्वावस्सयं पुहुत्तं नेच्छइ, तिण्हं सद्दनयाणं जाणए, अनुवउत्ते अवत्थु, कम्हा?, जइ जाणए अनुवउत्ते न भवंति, जइ अनुवउत्ते जाणए न भवति, तम्हा नत्थि आगमओ दव्वावस्सयं। से तं आगमओ दव्वावस्सयं। वृ. इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते,
'नत्थि नएहि विहुणं सुत्तं अत्थो य जिनमए किंचि। .
आसज्ज उ सोयारं नए नयविसारओ बूया।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org