________________
२६०
अनुयोगद्वार-चूलिकासूत्र नामसमय, इदमुक्तं भवति
यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः, घोषा-उदात्तादयः तैर्वाचनाचार्याभिहितघोषैः समं घोषसमं, यथा गुरुणा अभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तत् घोषमसममिति भावः, एवद्वयादिभिरक्षीनं हीनाक्षरं न तथा अहीनाक्षरम्, एकादिभिरक्षैरधिककत्यक्षरं न तथा अनत्यक्षरम्, 'अव्वाइद्धक्खरं'ति विपर्यस्तरत्नमालागतरत्नानीव व्याविद्धानि-विपर्यस्तान्यक्षराणि यत्र तद्याविद्धाक्षरं न तथाऽव्याविद्धाक्षरं, 'अव्वाइद्ध'मिति कचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाव्याविद्धं न तथाऽव्याविद्धम्, उपलशकलाद्याकुलभूभागे लांगलमिव स्खलित यत्तत् स्खलितं न तथाऽस्खलितम्, अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तत् मिलितमसदृशधान्यमेलकवत्, अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदोन प्रतीयते तन्मलितं न तथाऽमीलितम्, एकस्मिन्नेनव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्रस्थाने समानीय पठतो व्यत्यानेडितम, अथवा आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्सदृशानि सूत्राणि कृत्वा प्राक्षिपतो व्यत्यानेडितम्, अस्थानविरतकं वा व्यत्यानेडितम्, न तथाऽव्यत्यानेडितं, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहारकांक्षादिरहितं प्रतिपूर्णम्, उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम्।
अत्राह-घोषमममित्युक्तमेव तत्क इह विशेष इति, उच्यते, घोषममिति शिक्षाकालमअधिकृत्योक्तं, प्रतिपूर्णघोषं सुपरावर्तनादिकालमधिकृत्येति विशेषः, कण्ठश्चौष्ठश्च कण्ठोष्टमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रमुक्तं, कष्ठोष्ठविप्रमुक्तं, बालमूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः, गुरुप्रदत्तया वाचनया उपगतं-प्राप्तं गुरुवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात् स्वयमेवाधीतमिति भावः, तदेवं यस्य जन्तोरावश्यकशास्त्र शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया-शिष्याध्यापनलक्षणया प्रच्छनया-तद्गतार्थदेर्गुरुं प्रति प्रश्नलक्षणया परावर्तनया-पुनः पुनः सूत्रार्थाभ्यालक्षणया धर्मकथया-अहिंसादिधर्मप्ररूपणस्वरूपया वर्तमानोऽपि, अनुपयुक्तत्वादिति साध्याहारम्, आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः।
ननु यथा वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथाऽनुप्रेक्षयाऽपि तत्र वर्त्तमानस्तद्भवति?, नेत्याह-'नो अनुप्पेहाए'त्ति अनुप्रेक्षया-ग्रन्थार्थानुचिन्तरूपणया, तत्र वर्तमानो न द्रव्यावश्यकमित्यर्थः, अनुप्रेक्षाया उपयोगमन्तरेणाभावाद्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः । अत्राह पर:-'कम्ह'त्ति, ननु कस्माद्वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं ?, कस्माच्चानुप्रेक्षया तत्र वर्तमानो न तथेति प्रच्छकाभिप्रायः, एवं पृष्टे सत्याह-'अनुवओगो दव्वमितिकट्ट'त्ति अनुपयोगो द्रव्यमितिकृत्वा, उपयोजनमुपयोगो-जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते, न विद्यतेऽसौ यत्र सोऽनुपयोगः-पदार्थः,सविवक्षितोपयोगस्य कारणमात्रत्वात् द्रव्यमेव भवति इतिकृत्वा' अस्मात्कारणाद् अनन्तरोक्तमुपपद्यत इति शेषः, एतदुक्तं भवतिउपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचनाप्रच्छनादयः संभवन्त्येव, तत्रेह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते, अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org