SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मूलं - १३ 'भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् ॥' व्याख्या- तद् द्रव्यं तत्त्वज्ञैः कथितं यत्कथंभूतमित्याह-यत् कारणं- हेतु:, , कस्येत्याह'भावस्य' पर्यायस्य, कथंभूतस्येत्याह-'भूतस्य' अतीतस्य 'भाविनो वा' भविष्यतो वा, 'लोके' आधारभूते, तच्च सचेतनं पुरुषादि अचेतनं च - काष्ठादि भवति, एतदुक्तं भवति यः पूर्व स्वर्गादिष्विन्द्रियादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत्, तथा अग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रापदपर्यायकारणत्वात् द्रव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत्, एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः ॥ २५९ इत: प्रकृतमुच्यते - तच्चेह द्रव्यरूपमावश्यकं प्रकृतं, तत्रावश्यकोपयोगाधिष्ठितः साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागमः आवर्त्तादिका क्रिया चावश्यकमुच्यते, आवश्यकोपशून्यास्तु ता एव देहागमक्रिया द्रव्यवश्यकं तच्च द्विविधं प्रज्ञप्तमिति, तद्यथा- 'आगमतः ' 'आगममाश्रित्य नो आगामत: ' नोआगममाश्रित्यं, नोआगामशब्दार्थं यथाऽवसरमेव वक्ष्यामः, चशब्दौ द्वयोरपि स्वस्वविषये तुल्यप्राधान्यख्यापनर्थौ ॥ अत्राद्यभेदजिज्ञासुराह } मू. ( १४ ) से किं तं आगमओ दव्वावस्स्यं ?, २ जस्स नं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसमं घोससमं अहीनक्खरं अनच्चक्खरं अव्वाइद्धक्खरं अक्खलिअं अमिलिअं अवच्चामेलियं पडिपुण्णं पडिपुन्नधोसं कंठोट्टविप्यमुक्कं गुरुवायणोवगयं, से णं तत्थ वायणाए पुच्छणाए परिअट्ठणाए धम्मकहाए नो अनुप्पेहाए, कम्हा?, 'अनुवओगो दव्व' मितिकट्टु ॥ वृ. अथ किं तदागमतो द्रव्यावश्यकमिति, आह- 'आगमतो दव्वावस्सयं जस्सन' मित्यादि, 'ण' मिति पूर्ववत्, 'जस्स'त्ति यस्य कस्यचित् 'आवस्सएत्तिपयं'ति आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, ततश्च यस्य कस्यचिदावश्यकशास्त्र शिक्षितं स्थितं जितं यावत् वाचनोपगतं भवति 'से नं तत्थे 'ति स-जन्तुरस्त्र आवश्यकशास्त्रे वाचनाप्रच्छनापरिवर्तनाधर्म्मकथाभिवर्त्तमानोऽप्यावश्यकोपयोगे अवर्त्तमानः 'आगमतः ' आगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः । अत्राह- नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एताच्चयुक्तं, यत आगमो ज्ञानं ज्ञानं च भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते ?, सत्यमेतत्, किन्त्वागमस्य कारणामात्मा तदधिष्ठितो देहः शब्दश्चयोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः एतच्च त्रितयभागकारणत्वाकारणे कार्योपचारादागम उच्यते, कारणं न विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः । तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छिक्षितमुच्यते, तदेवाविस्मरणतश्चेतसि स्थितं-स्थितत्वात् स्थितमप्रच्युतमित्यर्थः, परावर्त्तनं कुर्व्वतः परेण वा कचित् पृष्टस्य यच्छीघ्रमागच्छति तञ्जितं विज्ञातश्लोकपदवर्णादिसंख्यं मितं, परि-समन्तात्सर्व्वं प्रकारौजितं परिजितं - परावर्त्तनं कुर्व्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः, नाम-अभिधानं तेन समं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy