________________
२५८
अनुयोगद्वार-चूलिकासूत्रं स्थाप्यमानाः स्थापनाऽऽवश्कं, तत्र काष्ठकर्मादिष्वाकारवति सद्भावस्थापनया, साध्वाद्याकारस्य तत्र सद्भावात्, अक्षादिषु त्वनाकारवती असद्भावस्थापनया, साध्वाद्याकारस्य तंत्रासद्भावादिति, निगमयन्नाह'सेत'मित्यादि तदेतत् स्थापनाऽऽवश्यकमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह
मू.(१२) नामट्ठवणाणं को पइविसेसो?, नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा।
वृ. नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः, तथाहि-आवश्कयादिभावार्थशून्ये गोपालदारकादौ द्रव्यमात्रे यथा आवश्यकादिनाम क्रियते, तत्स्थापनाऽपि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं आवकहिय'मित्यादि, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्तते, न पुनरन्तराऽप्युपरमते(ति), स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा, स्वाश्रयद्रव्ये अवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते काचित्तु तत्सत्तां यावदतिष्ठति इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावतए स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव, स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यकल्पकालवर्तिनी, शाश्वतप्रतिमादिरूपातु यावत्कथिका वर्तते, तस्याश्चाहदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं, न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः। __ अत्राह-ननु यथा स्थापना काचिदकल्पकालीना तथा नामापि किञ्चिदल्पकालीमेव, गोपालदारकादौ विद्यमानेऽपिकदाचिदनेकनामपरावृत्तिदर्शनाद, सत्यं, किन्तु प्रायो नाम यावकथितमेव, यस्तु कचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः। ___ उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात्, तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषतिः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद् भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्राद्, यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति।
उक्तं स्थापनाऽऽवश्यकम्, इदानीं द्रव्यावश्यकनिरूपणाय प्रश्न कारयति
मू.(१३)से किं तं दव्वावस्सयं?, २ दुविहु पनत्तं तंजहा-आगमओ अनोआगमओ अ। ". वृ.अथकिं तत् द्रव्यावश्यकमिति पृष्टे सत्याह-'दव्वावस्सयं दुविह'मित्यादि तत्र द्रवतिगच्छति ताँस्तान् पर्यायानिति द्रव्यं विवक्षितयोरतीतभविष्यद्भावयोः कारणम्, अनुभूतविवक्षितभावमनुभविष्यद्विवक्षितभावंवा वस्त्वित्यर्थः, द्रव्यं च तदावश्यकं च द्रव्यावश्यकम्, अनुभातावश्यकपरिणाममनुभविष्यदावश्यकपरिणामं वा साधुदेहादीत्यर्थः।
द्रव्यलक्षणं च सामान्य इदम् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org