SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ मूलं-२ २५१ यथासन्निहितसाधुभिः, सह तस्मै वन्दनकं ददाति, ततो विनेयो निपद्यास्थित एव नाणं पंचविहं पन्नत्त' मित्यादिसूत्रमुच्चार्य यथाशक्ति व्याख्यानं करोति, तदन्ते च साधवो वन्दनकं ददति, ततः शिष्यो निषद्यातः उत्तिष्ठति, गुरुरेव पुनस्तत्र निपीदति, ततो द्वावप्यनुयोगाविसर्गार्थं कालप्रतिक्रमणार्थं च प्रत्येकं कायोत्सर्ग कुरुतः ततः शिष्यो निरुद्धं प्रवेदयते निरुद्धं करोतीत्यर्थः। ___ एवं श्रुतस्यैव उद्देशादयः प्रवर्त्तन्ते, न शेषज्ञानानाम्, अत्र चानुयोगेनैवाधिकारो न शेषैः, अनुयोगद्वारविचारस्यैवेह प्रकान्तत्वाद् ।। मू.(३) जइ सुयनाणस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ, किं अंगपविट्ठस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ ?, किं अंगबाहिरस्स उद्देसो समुद्देसो अणुन्ना अनुओगो य पवत्तइ?, अंगपविट्ठस्सवि उद्देसो जाव पवत्तइ, अनंगपविट्ठस्सवि उद्देसो जाव पवत्तइ, इमं पुण पट्ठवणं पडुच्च अनंगपविट्ठस्स अनुओगो॥ व. अत्र यथाभिहितमुपजीव्याह शिष्यो-'यदी'त्यादि, यधुक्तक्रमेण श्रुतज्ञानस्योद्देश: समुद्देशोऽनुज्ञा अनुयोगश्च प्रवर्तते, तहि किमसावङ्गप्रविष्टस्य प्रवर्तते, उताङ्गबाह्यस्येति ।, तत्राङ्गेषु प्रविष्टम्-अन्तर्गतमङ्गप्रविष्टं श्रुतम्-आचारादि, तद्बाह्यं तु उत्तराध्ययनादि, अत्र गुरुनिर्वचनमाह-'अंगपविट्ठस्सवि'त्यादि अपिशब्दौ परस्परसमुच्चायार्थी, अङ्गप्रविष्टस्याप्युद्देशादि प्रवर्तते, अङ्गाद्वाह्यस्यापि, 'इदं पुनः' प्रस्तुतं 'प्रस्थापनं' प्रारम्भं प्रतीत्य' आश्रित्याङ्गबाह्यस्य प्रवर्तते नेतरस्य, आवश्यकं ह्यत्र व्याख्यास्यते, तच्चाङ्गबाह्यमेवेति भावः ।। मू. (४) जइ अनंगपविट्ठस्स अनुओगो, किं कालिअस्स अनुओगो? उक्कालिअस्स अनुओगो ?, कालिअस्सवि अनुओगो उक्कालिअस्सवि अनुओगो, इमं पुन पट्ठवणं पडुच्च उक्कालिअस्स अनुओगो। वृ.अत्राङ्गबाह्यस्येति सामान्योक्तौ सत्यां संशयानो विनेय आह-'जइ अंगबाहिरस्से'त्यादि, यद्यङ्गबाह्यस्योद्देशादिः किमसौ कालिकस्य प्रवर्त्तते उत्कालिकस्य वा? द्विधाऽप्यङ्गबाह्यस्य संभवादितिभावः, तत्र दिवसनिशाप्रथमचरमपौरुषीलक्षणे कालेऽधीयते नान्यत्रेति कालिकम्उत्तराध्ययनादि, यत्तु कालवेलामात्रवर्जं शेषकालानियमेन पठ्यते तदूत्कालिकम्-आवश्यकादि। अत्र गुरुः प्रतिवचनमाह- कालियस्सवी'त्यादि, कालिकस्याप्यसौ प्रवर्तते, उत्कालिस्यापि, इदं पुनः प्रस्तुतं प्रस्थापनं-प्रारम्भं प्रतीत्य उत्कालिकस्यासौ मन्तव्यः, आवश्यकमेव ह्यत्र व्याख्यास्यते, तच्चोत्कालिकमेवेति हृदयम् ॥ उत्कालिकस्येति सामान्यवचने विशेषजिज्ञासुः पृच्छति मू.(५) जइ उक्कालिअस्स अनुओगो किं आवस्सगस्स अनुओगो? आवस्सगवतिरित्तस्स अनुओगो?, आवस्सगस्सवि अनुओगो आवस्सगवतिरित्तस्सवि अनुओगो इमं पुन पट्ठवणं पडुच्च आवस्सगस्स अनुओगो।। वृ. यद्युत्कालिकस्योद्देशादिस्तत्किमावश्यकस्यायं प्रवर्तते यद्वाऽऽवश्यकव्यतिरिक्तस्य?, उभयथाऽप्युत्कालिकस्य सम्भवादिति परमार्थः। तत्र श्रमणैः श्रावकैश्चयोभयसन्ध्यमवश्यंकरणादावश्यक-सामायिकादिपडध्ययनकलापः, तस्मात्तु व्यतिरिक्तं-भिन्न दशवैकालि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy