SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ अनुयोगद्वार - चूलिकासूत्रं कादि, गुरुराह - 'आवस्सगस्सवी' त्यादि, द्वयोरप्येतयोः सामान्येनोद्देशादिः प्रवर्त्तते, किंत्विदं प्रस्तुतं प्रस्थापनं प्रारम्भं प्रतीत्यावश्यकस्यानुयोगी नेतरस्य सकलसामाचारीमूलत्वादस्यैवेह शेषपरिहारेण व्याख्यानादिति भावनीयम्, उद्देशसमुद्देशानुज्ञास्त्वावश्यके प्रवर्त्तमाना अप्यत्र नाधिकृताः, अनुयोगावसरत्वाद्, अतस्तत्परिहारेणोक्तम् 'अनुओगो 'त्ति, अयमत्र भावार्थ:अनुयोगस्य प्रक्रान्तत्वात् तद्वक्तव्यताप्रतिबद्धाया अस्या गाथाया इहावसरः, तद्यथा'निखेवेगट्ठ निरुत्ति विही पवित्ती य केन वा कस्स ? | तद्दारभेयलक्खणतदरिहपरिसा य सुत्तत्थो ॥ १ ॥ अस्या विनेयानुग्रहार्थं व्याख्या - इहानुयोगस्य निक्षेपो-नामस्थापनादिको वक्तव्यः १, तथाऽनुयोगस्यैकाथिकानि वक्तव्यानि, यदाह "अनुओगो य निओगो भासा विभासा य वत्तियं चेव । एए अनुओगस्सस य नामा एगट्ठिया पंच ॥२॥" तथाऽनुयोगस्य निरुक्तं वक्तव्यं, तद्यथा-स्वाभिधायकसूत्रेण सहार्थस्य अनु-नियत: अनुकूलो वा योगः-अस्येदमभिधेयमित्येवं संयोज्य शिष्येभ्यः प्रतिपादनमनुयोगः सूत्रार्थकथनमित्यर्थः, अथवा-एकस्यापि सूत्रस्यानन्तोऽर्थ इत्यर्थो महान्, सूत्रं त्वणु, ततश्चाणुना- सूत्रेण सहार्थस्य योगो अनुयोग:, तदुक्तम् "निययानुकुलो जोगो सुत्तस्सऽत्थेण जो य अनुओगो । सुतं च अनुं तेणं जोगो अत्थस्स अनुओगो ।। " ३, तथाऽनुयोगस्य विधिर्वक्तव्यो, यथा- प्रथमं सूत्रार्थ एव शिष्यस्य कथनीयः, द्वितीयवारायां सोऽपि निर्युक्त्यर्थकथनमिश्रः, तृतीयवारायां तु प्रसङ्गानुप्रसङ्गागतः सर्वोऽप्यर्थो वाच्यः, तदुक्तम् "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसितो भणितो । तइओ य निरवसेसो एस विही होइ अनुओगो ।।" इत्याद्यन्योऽपि अत्र विधिर्वाच्यो, दिङ्मात्रत्वादस्येति ४, तथाऽनुयोगस्य प्रवृत्तिर्यथा भवति तथा वाच्यं तत्रोद्यमी सूरिरुद्यमिनः शिष्याः, उद्यमी सूरिरनुद्यमिनः शिष्याः, अनुद्यमी सूरिद्यमिनः शिष्याः, अनुद्यमी सूरिरनुद्यमिनः, शिष्या इति चतुर्भङ्गी, अत्र प्रथमभङ्गे अनुयोगस्य प्रवृत्तिर्भवति, चतुर्थे तु न भवति, द्वितीयतृतीययोऽस्तु काचित्कथञ्चिद्भवत्यपि ५, तथानुयोगः केन कर्त्तव्य इति तद्योग्यः कर्त्ताऽभिधानीयो, यदाह- "देसकुलजाइरूवी संघयणी धिइजुओ अनासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ॥ थिरपरिवाडि 'त्ति अविस्मृतसूत्रः । Jain Education International "जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू । आसन्नलद्ध पइभो नाणाविहदेसभाणन्नू ॥२॥ पंचवि आयारे जुत्ते सुत्तत्थदुभयविहिन्नू । For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy