________________
२५०
अनुयोगद्वार-चूलिकासूत्रं चतुर्विंशतिस्तवं भणित्वा परिसमाप्तोद्देशक्रियत्वाद् गुरोः थोभवन्दनकं ददाति, तच्च न श्रुतप्रत्ययं, किं तर्हि ?, श्रुतदातृत्वादिना गुरुः परमोपकारी, तद्विनयप्रतिपत्तिनिमित्तमिति । ___ अङ्गादिसमुद्देशेऽप्ययमेव विधिर्वक्तव्यो, नवरं पूर्व प्रवेदिते योगं कुर्वित्युक्तमत्र तु स्थिरपरिचितं कुर्विति वदति, योगोत्क्षेपकारयोत्सर्गो नन्द्याकर्षणं प्रदक्षिणात्रयविधिश्च न क्रियते, शेषः सप्तवन्दनकादिको विधिस्तथैव। __ अनुज्ञाविधिस्तु योगोत्क्षेपकायोत्सर्गवर्जः सर्वोऽप्युद्देशविधिद्वक्तव्यो, नवरं प्रवेदिते गुरुर्वदति-'सम्यग् धारयान्येषां च प्रवेदय' अन्यानपि पाठ्येत्यर्थः, आवश्कादिषु तण्डुलविचारणादिप्रकीर्णकेष्वपि चैष एव विधिः, नवरं स्वाध्यायप्रस्थापनं योगोत्क्षेपकार्योत्सर्गश्च न क्रियते, एवं सामायिकाद्यध्ययनेषुदेशकेषु च चैत्यवन्दनप्रदक्षिणात्रयादिविशेषक्रियारहितः सप्तवन्दनप्रदानादिकः स एव विधिरिति तावदियं चूर्णिकारलिखिता सामाचारी, साम्प्रतं पुनरन्यथापि ताः समुपलभ्यन्ते, न च तथोपलभ्य सम्मोह: कर्त्तव्यः, विचित्रत्वात्सामाचारीणामिति ।
इदानीमनुयोगविधिरुच्यते-तत्रानुयोगे-वक्ष्यमाणशब्दार्थः, स यदाऽधीतसूत्रस्याचार्यप्रदप्रस्थानयोग्यस्य शिष्यस्यानुज्ञायते तदाऽयं विधि:-प्रशस्तेषु तिथिनक्षत्रकरणमुहूर्तेषु प्रशस्ते च जिनायतनादौ क्षेत्रे भुवं प्रमाW एका गुरूणामेका त्वक्षाणामिति निषद्याद्वयं क्रियते, ततः प्राभातिककाले प्रवेदिते निषद्यानिपण्णस्य गुरोश्चोलपट्टकरजोहरणमुखवस्त्रिकामात्रोपकरणो विनेयः पुरतोऽवतिष्ठते, ततो द्वावपि गुरुशिष्यौ मुखवस्त्रिका प्रत्युपेक्षयतः, तय च समग्रं शरीरं प्रत्युपेक्षयतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्त्वा वदति।
'इच्छाकारेण संदिशत स्वाध्यायं प्रस्थापयामि' ततश्च द्वावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते स्वाध्याये गुरुनिषीदति, ततः शिष्यो द्वादशार्वर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्ग करोति, ततो गुरुनिषीदती, ततस्तं शिष्यो द्वादशार्वर्त्तवन्दनकं वन्दते, ततो गुरुरक्षानभिमन्त्र्योत्तिष्ठति, उत्थाय च निषद्यां पुरतः कृत्वा वामपार्वीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समाप्ते चैत्यवन्दने पुनः गुरुरूर्ध्वस्थित एव नमस्कारपूरर्ववं नन्दिमुच्चारयति, तदन्ते चाभिधत्ते-'अस्य साधोरनुयोगमनुजानामि क्षमाश्रवणानां हस्तेन, द्रव्यगुणपर्यायैरनुज्ञानतः' ततो विनेयच्छोभवन्दनकेन वन्दते, उत्थितश्च ब्रवीति-'संदिशत किंभणामि?' ततो गुरुराह-'वन्दित्वा प्रवेदय' ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति- भवद्भिर्ममानुयोगोऽनुज्ञातः, इच्छाम्यनुशास्ति' ततो गुरुर्वदति- सम्यग् धारयो अन्येषां च प्रवेदय' अन्येषामपि व्याख्यानं कुवित्यर्थः, ततो वन्दतेऽसौ, वन्दित्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात इत्याधुक्तिप्रत्युक्तिद्वितीयप्रदक्षिणा च तथैव, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरः स्थितश्च विनेयो वदति-'युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामी'त्यादि, शेषमुद्देशविधिद्वक्तव्यं यावदनुयोगानुज्ञानिमित्तं कायोत्सर्गं करोति, तदन्ते च सनिषद्यः शिष्यो गुरुं प्रदक्षिणयति वन्दते च, पुनः प्रदक्षिणयतिवन्दते च, एवं तिस्त्रो वाराः, ततो गुरुोदक्षिणभुजासन्ने निषीदति, ततो गुरुपारम्पर्यागतानि मन्त्रपदानि गुरुः तिस्त्रो वाराः शिष्यस्य कथयति, तदनन्तरं यथोत्तरे प्रवर्द्धमानाः प्रवरसुगन्धमिश्रास्तिस्रोऽक्षतमुष्टीस्तस्मै ददाति, ततो निषद्याया गुरुरुत्थाय शिष्यं तत्रोपवेश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org