________________
मूलं - २
२४९
तत्र इदमध्ययनादि त्वया पठितव्यमिति गुरुवचनविशेष उद्देशः, तस्मिन्नेव शिष्येण अहीनादिलक्षणोपेतेऽधीते गुरोर्निवेदिते स्थिरपरिचितं कुर्विदमिति गुरुवचनविशेष एव समुद्देशः, तथा कृत्वा गुरोर्निवेदिते सम्यगिदं धारयान्यांश्चाध्यापयेति तद्वचनविशेष एवानुज्ञा, 'सुयनाणस्से' त्यादि श्रुतज्ञानस्योद्देशः समुद्देशो ऽनुज्ञा अनुयोगश्च प्रवर्तते ।
तत्रोद्देशादीनां त्रयाणां स्वरूपं संक्षेपत उक्तमपि विनेयानुग्रहार्थ किञ्चिद्विस्तरतः उच्यतेतत्राचाराद्यङ्गस्य उत्तराध्ययनादिकालिक श्रुतस्कन्धस्य औपपातिकाद्युत्कालिकोपाङ्गाध्ययनस्य चायमुद्देशविधि:-इहाचाराङ्गाद्यन्यतरश्रुतमध्येतुमिच्छति यो विनयः सः स्वाध्यायं प्रस्थाप्य गुरुं विज्ञपयति- भगवन् ! अमुकं मम श्रुतमुद्दिशत, गुरुरपि भणति 'इच्छाम' इति, ततो विनेयो वन्दकं ददाति ?, ततो गुरुरुत्थाय चैत्यवन्दनकं करोति, तत ऊर्ध्वस्थितो वामपार्श्वीकृतशिष्यों योगोत्क्षेपनिमित्तं पञ्चविंशत्युच्छ्वासामानं कायोत्सर्गं करोति, 'चंदेसु निम्मलयरे 'ति यावच्चतुर्विंशतिस्तवं चिन्तयतीत्यर्थः, ततः पारितकायोत्सर्ग: संपूर्ण चतुर्विंशतिस्तवं भणित्वा तथास्थित एव पञ्चपरमेष्ठिनमस्कारं वारत्रयमुच्चार्य 'नाणं पञ्चविहं पन्नत्त' मित्यादि उद्देशनन्दीं भणति,
तदन्ते च 'इदं पुन: प्रस्थापनं प्रतीत्य अस्य साधोरिदमङ्गममुं श्रुतस्कंधं इदमध्ययनं वा उद्दिशामि क्षमाश्रमणानां हस्तेन सूत्रमर्थं तदुभयं च उद्दिष्ट' मित्येवं वदति, क्षमाश्रमणानामित्यादि त्वात्मनोऽहङ्कारवर्जनार्थमभिधत्ते, ततो विनेय 'इच्छामी 'ति भणित्वा वन्दनकं दादति २, तत उत्थितो ब्रवीति- 'संदिशत किं भणामीति, ' ततो गुरुर्वदति 'वन्दित्वा प्रवेदये 'ति, तयो विनये 'इच्छामी 'ति भणित्वा वन्दनकं ददाति ३, ततः पुनरुत्थितः प्रतिपादयति- 'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरयति - 'योगं कुर्वि 'ति, एवं सन्दिष्टो विनेय 'इच्छामि'ति भणित्वा वन्दनकं ददाति, ततोऽत्रान्तरे नमस्कारमुच्चायन्नसौ गुरु प्रदक्षिणयति, तदन्ते च गुरो: पुरतः स्थित्वा पुनर्वदति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुराह - 'योगं कुर्वि 'ति,
एवं सन्दिष्ट इच्छामिति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेयः, एतानि च चतुर्थवन्दनकादीनि त्रीण्यपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति ४, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदीति, निपण्णस्य च गुरोः पुरतोऽर्द्धावनतगात्रो विनेयो वक्ति- 'युष्माकं प्रवेदितं संदिशत साधूनां प्रवेदयामि' ततो गुरुराह- 'प्रवेदये'ति, तत इच्छामीति भणित्वा विनेयो वन्दनकं ददाति ५, प्रत्युत्थितश्चोच्चारितपञ्चपरमेष्ठिनमस्कारः पुनर्वन्दनकं ददाति ६, पुनरित्थतो वदति- 'युष्माकं प्रवेदितं साधूनां च तत् प्रवेदितं सन्दिशत करोमि कायोत्सर्गं' ततो गुरुरनुजानीते - 'कुर्वि 'ति, ततः पुनरपि वन्दनकं ददाति ७, ।
एतानि सप्त थोभवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते - 'अमुकस्योद्देशनिमित्तं करोमि कायोत्सर्गमन्यत्रोच्छु सितादित्यादि यावद्व्युत्सृजामीति' तत: कायोत्सर्गस्थितः सप्तविंशतिमच्च्छ्वासांश्चिन्तयति 'सागरवरगम्भीरे' ति यावच्चतुर्विंशतिस्तवं चिन्तयति इत्यर्थः ।
उद्देससमुद्देसे सत्तावीसं अनुन्नवणयाए' इतिवचनात्, ततः पारितकार्योत्सर्गः संपूर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org