________________
२४८
अनुयोगद्वार-चूलिकासूत्रं तत्परिज्ञाने च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान् संप्राप्य प्रकर्षवच्चरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूय विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षात्करणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं परमपदमधिगच्छतीति। .
सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव, वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकारणां समयः परिपालितो भवति, उक्तं च तैः
"संबंधभिधेयपओयणाई तह मंगलं च सत्थम्मि।
सीसपवित्तिनिमित्तं निव्विग्घत्थं च चिंतिम्जा ।।" इत्यलं विस्तरेण।
मू. (२)तत्थ चत्तारि नाणाइं ठप्पाइं ठवणिज्जाइं नो उद्दिसंति नो समुद्दिसति नो अणुनविजंति, सुयनाणस्स उद्देसो समुद्देसो अनुन्ना अनुभोगो य पवत्तइ
वृ. यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह-'तत्थे'त्यादि, 'तत्र तस्मिन् ज्ञानपञ्चके आभिनिबोधिकावधिमनः पर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति स्थाप्यानिअसंव्यवहार्याणि, व्यवहारनयोहियदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः श्रुतमेव साक्षादत्यन्तोपकारि, यद्यपि केवलादिदृष्टमर्थं श्रुतभिधत्ते तथापि गौणवृत्त्या तानि लोकोपकारीणिति भावः। __ यद्युक्तन्यायेनासंव्यवहार्याणि तानि ततः किमित्याह-'ठवणिज्जाई'ति ततः स्थापनीयानि एतानि, तथाविधोपकाराभावतोऽसंव्यवहार्यत्वात्तिष्ठन्तु, न तैरिहोद्देशसमुद्देशाद्यवसरेऽधिकार इत्यर्थः, अथवा स्थाप्यानि-अमुखराणि स्वस्वरूपप्रतिपादनेऽप्यसमर्थानि, न हि शब्दमन्तरेण स्वस्वरूपमपि केवलादीनी प्रतिपादयितुं समर्थानि, शब्दश्चानन्तरमेव श्रुतत्वेनोक्त इति स्वपरस्वरूपप्रतिपादने श्रुतमेव समर्थं, स्वरूपकथनं चेदमतः स्थाप्यानि, अमुखराणि यानि चत्वारि ज्ञानानि तानीहानुयोगद्वारविचारप्रक्रमे किमित्याह-अमुपयोगित्वात् स्थापनीययानि, अनधिकृतानि, यत्रैव ह्युद्देशसमुद्देशानुज्ञानदय: क्रियन्ते तत्रैवानुयोगः तद्द्वाराणि चोपक्रमादीनि प्रवर्त्तन्ते, एवंभूतं त्वाचारादि श्रुतज्ञानमेव इत्यत उद्देशाद्यविषयत्वादनुयोगीनि शेषज्ञानानि, इत्यतोऽत्रानधिकृतानि। ___ अत्राह-अनुयोगो व्याख्यानं, तच्च शेषज्ञानचतुष्टयस्यापि प्रवर्त्तत एवेति कथमनुपयोगित्वं?, ननु समयचर्यानिभज्ञतासूचकमेवेदं वचो, यतो हन्त तत्रापि तद्ज्ञानप्रतिपादकसूत्रसंदर्भ एव व्याख्यायते, स च श्रुतमेवेति श्रुतस्यैवानुयोगप्रवृत्तिरिति।। __ अथवा स्थाप्यानि-गुर्वनधीनत्वेनोद्देशाद्यविषयभूतानि, एतदेव विवृणोति-स्थापनीयानीति, एकार्थों द्वावपि, इदमुक्तं भवति, अनेकार्थत्वादतिगम्भीरत्वाद्विविधमन्त्राद्यतिशयसम्पन्नवाच्च प्रायो गुरूपदेशापेक्षं श्रुतज्ञानं, तच्च गुरोरन्तिके गृह्यमाणं परमकल्याणकोशत्वादुद्देशादिविधिना गृह्यत इति तस्योद्देशादयः प्रवर्तन्ते, शेषाणि तु चत्वारिज्ञानानि तदावरणकर्मक्षयक्षयोपशमाभ्यां स्वत एव जायमानानि नोद्देशादिप्रक्रममपेक्षन्ते।
यतश्चैवमत आह-'नो उद्दिसिज्जंति'त्यादि नो उद्दिश्यन्ते नो समुद्दिश्यन्ते नो अनुज्ञायन्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org