________________
मूलं - १
'कृत्यल्युटो बहुलं' इति वचनात् भावसाधनः, ज्ञायते परिच्छिद्यते वस्त्वनेनास्मादस्मिन्वेति वा ज्ञानं, जानाति - स्वविषयं परिच्छिनत्तीति वा ज्ञानंज्ञानावरणकर्म्मक्षयोपशमक्षयजन्यो जीवस्वतत्त्वभूतो बोध इत्यर्थः, 'पञ्चविहं' ति पञ्चेति-सङ्ख्यावचनो विधानानि विधा: - भेदाः पञ्चविधा अस्येति पञ्चप्रकारमित्यर्थः, 'पन्नत्तं ति प्रज्ञप्तमर्थतस्तीर्थकरोः सूत्रतो गणधरैः प्ररूपितमित्यर्थः, अनेन सूत्रकृता आत्मनः स्वमनीषिका परिहृता भवति, अथवा प्राज्ञात् तीर्थकरादाप्तं-प्राप्तं गणधरैरिती प्राज्ञाप्तम्, अथवा प्राज्ञैः - गणधरैस्तीर्थकरादात्तं गृहीतमिति प्राज्ञात्तं, प्रज्ञया वा भव्यजन्तुभिराप्तं प्राप्तं प्रज्ञाप्तं, न हि प्रज्ञाविकलैरिदमवाप्यत इति प्रतीतमेव, हुस्वत्वं सर्वत्र प्राकृतत्वादित्यक्यवार्थः, अक्षरयोजना त्वेवम्-ज्ञानं परमगुरुभिः प्रज्ञप्तमिति सम्बन्धः, कतिविधमीति, अत्रोच्यते, पञ्चविधमिति ।
-
तस्यैव पञ्चविधत्वस्योपदर्शनार्थमाह- 'तंजहे 'त्यादि, तद्यथेत्पुपन्यासार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानम् अवधिज्ञानं मनः पर्यायज्ञानं केवलज्ञानं चेति । तत्र अभीत्याभिमुखे नीति नैयत्ये, ततश्चाभिमुखो वस्तुयोग्यदेशावस्थानापेक्षी नियत-इन्द्रियाण्याश्रित्य स्वस्वविषयपेक्षी बोधः अभिनिबोध इती भावसाधनः, स्वार्थिकतद्धितोत्पादात्स एवाभिनिबोधिकम्, अभिनिबुध्यते आत्मना स इत्यभिनिबोध इति कर्म्मसाधनो वा, अभिनिबुध्यते वस्त्वसावित्यभिनिबोध इति कर्तृसाधनो वा, स एवाभिनिबांधिर्कामति तथैय, आभिनिबोधकं च तद् ज्ञानं चाभिनिबोधिकज्ञानम् - इन्द्रियपञ्चकमनोनिमित्तो बोध इत्यर्थः ।
श्रवणं-श्रुतम् अभिलापप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानम्, अथवा श्रूयति इति श्रुतं - शब्दः स चासौ कारणे कार्योपचाराद् ज्ञानं च श्रुतज्ञानं, शब्दो हि श्रोतुः साभिलापज्ञानस्य कारणं भवतीति सोऽपि श्रुतज्ञानमुच्यते । अवधानमवधिःइन्द्रियाद्यनपेक्षमात्मन: साक्षादर्थग्रहणम्, अवधिरेव ज्ञानमवधिज्ञानम् ।
अथवा अवधि:-मर्यादा तेनावधिना-रूपिद्रव्यमर्यादात्मकेन ज्ञानमवधिज्ञानं ।
२४७
संज्ञिभिर्जीवै: काययोगेन मनोवर्गणाभ्यो गृहीतानि मनोयोगेन मनस्त्वेन परिणमितानि द्रव्याणि मनांसीत्युच्यन्ते, तेषां मनसां पर्यायाः - चिन्तनानुगुणाः परिणामास्तेषु ज्ञानं मनः पर्यायज्ञानम्, अथवा यथोक्तस्वरूपाणि मनांसि पर्येति- अवगच्छतीति मन: पर्यायमिति कर्म्मण्यण् तच्च तद् ज्ञानं च मन: पर्यायज्ञानं ।
केवलं संपूर्णज्ञेयविषयत्वात् संपूर्ण तच्च तद् ज्ञानं च केवलज्ञानमिति ।
अवग्रहादिभेदचिन्ता त्वेतेषां ज्ञानानामत्र न क्रियते, सूत्रेऽनुक्तत्वेनाप्रस्तुतत्वात् नन्द्यादिषु विस्तरेणोक्तत्वाच्चेति । अनेन च शास्त्रस्यादावेव ज्ञानपञ्चकोत्कीर्त्तनेन मङ्गलं कृतं भवति, सकलक्लेशविच्छेदहेतुत्वेन ज्ञानस्य परममङ्गलत्वात् । अभिधेयं तु गुणनिष्पन्नानुयोगद्वारलक्षणशास्त्रनामत एव सकाशात्प्रतीयते, उपक्रमाद्यनुयोगाद्वाराणामेवेहाभिधास्यामानत्वात् ।
प्रयोजनं तु प्रकरणकर्तु श्रोत्रो : प्रत्येकमनन्तरपरम्भरभेदाचिन्तनीयं, तत्र प्रकरणकर्तुरनन्तरं सत्त्वानुग्रहः प्रयोजनं श्रोतुश्चप्रकरणार्थपरिज्ञानं, परम्परं तु द्वयोरपि परमपदप्राप्तिः, इदं तु यद्यपीह साक्षान्नोक्तं तथापि सामर्थ्यादवसीयते, तथाहि सत्त्वानुग्रहप्रवृत्ता एवं परमगुरव इदमुपदिशन्ति, तदनुग्रहे च क्रमेण परमपदप्राप्तिः प्रतीतैव, श्रोताऽपि गुरुभ्यः प्रस्तुतप्रकरणार्थ विजानाति,
For Private & Personal Use Only
www.jainelibrary.org
-
Jain Education International