SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २४६ अनुयोगद्वार-चूलिकासूत्रं नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मा स्वामिने नमः ४५ अनुयोगद्वारसूत्रम् सटीकं द्वितीयं चूलिका सूत्रं (मूलम् + मल्लधारीय हेमचन्द्रसूरि विरचितावृत्तिः) ७. ऐं नमः । श्रीवीतरागाय नमः। सम्यक्सुरेन्द्रकृतसंस्तुतपादपद्म-मुद्दामकामकरिराजकठोरसिंहम् । सद्धर्मदेशकवरं वरदं नतोऽस्मि, वीरं विशुद्धतरबोधनिधिं सुधीरम् ॥१॥ अनुयोगभृतां पादान् वन्दे श्रीगौतमादिसूरीणाम्। निष्कारणबन्धूनां विशेषतो धर्मादातृणाम्।।२।। यस्याः प्रसादमतुलं संप्राप्य भवन्ति भव्यजननिवहाः। __ अनुयोगवेदनिस्तां प्रयतः श्रुतवेदतां वन्दे ।।३।। इहातिगम्भीरमहानीरधिमध्यनिपतितानय॑रत्नमिवातिदुर्लभं प्राप्य मानुषं जन्म ततोऽपि लब्ध्वा त्रिभुवनैकहितश्रीमञ्जिनप्रणीतबोधिलाभं समासाद्य विरत्यनुगुणपरिणामं प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थं विज्ञाय स्वपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञां जिनवचनानुयोगकरणे यतितव्यं तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात्। च चानुयोगो यद्यप्यनेकग्रन्थविषयः संभवति, तथापि प्रतिशास्त्र प्रत्यध्ययनं प्रत्येद्देशकं प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनुयोगद्वारणामसौ विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः। __ स च यद्यपि चूर्णिटीकाद्वारेण वृद्धैरपि विहितः तथापि तद्वचसामतिगम्भीरत्वेन दुरधिगमत्वाद् मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितौतुसुक्यभावतोऽविचारितस्वशक्तित्वादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते॥ मू. (१) नाणं पंचविहं पत्रत्तं, तंजहा-आभिनिबोहियनाणं सुयनाणं ओहिनाणं मनपज्जवनाणं केवलनाणं॥ वृ.अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतत्वात् संभाव्यमानविघ्नत्वात् तदुपशमार्थ शिष्टसमयपरिपालनार्थं चादौ मंगलरूपं सूत्रमाह-'नाणं पञ्चविहं' इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy