SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ मूलं-१५७ २३९ श्चिन्त्यन्ते-तत्र यदाऽभिनिवेशवशतोऽन्यथा सूत्रं पठति तधा सूत्राज्ञाविराधना, सा च यथा जमालिप्रभृतीनां, यदा त्वभिनिवेशवशतोऽन्यथा द्वादशाङ्गार्थं प्ररूपयति तदाऽर्थाज्ञाविराधना, सा च गोष्ठामाहिलादीनामवसेया, यदा पुनरभिनिवेशवशतः श्रद्दाविहीनतया हास्यादितो वा द्वादशाङ्गस्य सूत्रमर्थं च विकुट्टयति तदा उभयाज्ञाविराधना, सा च दीर्धसंसारिणामभव्यानांचानेकेषां विज्ञेया, अथवा पञ्चविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य गुरोहितोपदेशवचनं आज्ञा, तामन्यथा समाचरन् परमार्थतो द्वादशाङ्गं विराधयति, तथा चाह चूर्णिकृत् 'अहवा आणत्ति पञ्चविहायारायरणसीलस्स गुरुणोहियोवएसक्यणं आणा, तमन्नहा आयरंतेण गिणिपिडगं विराहियं भवइत्ति" तदेवमतीते काले विराधनाफलमुपदर्य सम्प्रति वर्तमानकाले दर्शयति ‘इच्चेइय'मित्यादि, सुगमं नवरं परित्ता' इति परिमिता नत्वनन्ता असङ्ख्येयावा, वर्तमानकालचिन्तायां विराधकमनुष्याणां सङ्ख्येयत्वात्, ‘अनुपरियटुंति'त्ति अनुपरावर्त्तन्ते-भ्रमन्तीत्यर्थः, भविष्यति काले विराधनामुपदर्शयति-'इच्चेइय'मित्यादि, इदमपि पाठसिद्धं, नवरं परियट्ठिस्संति'त्ति अनुपरावतिष्यन्ते-पर्यटिष्यन्तीत्यर्थः, तदेवं विराधनाफलं त्रैकालिकमुपदर्य सम्प्रत्याराधनाफलं त्रैकालिकं दर्शयति-'इच्चेइय'मित्यादि, सुगमं नवरं वीइवइंसुत्ति व्यतिक्रान्तवन्तः संसारकान्तारमुल्लङ्घय मुक्तिमवाप्ता इत्यर्थः, 'वीईवइस्संति'त्ति व्यतिक्रमिष्यन्ति, एतच्च कालिकं विराधनाफलमाराधनाफलं च द्वादशाङ्गस्य सदाऽवस्थायित्वे सति युज्यते, नान्यथा, ततः सदावस्थायित्वं तस्याह ‘इच्चेइय'मित्यादि, इत्येतद्वादशाङ्गं गणिपिटकं न कदाचिन्नासीत्, सदैवासीदिति भाव, अनादित्वात्, तथा न कदाचिन भवति, सर्वदैववर्तमानकालचिन्तायां भवतीति भावः, सदैव भावात्, तथा न कदाचिन भविष्यति, किन्तु भविष्यच्चिन्तायां सदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्रत्यस्तित्वं प्रतिपादयति'भुविच'इत्यादि, अभूत् भवति भविष्यति चेति, एवं त्रिकोलावस्थायित्वात् ध्रुवं मेर्वादिवत्, ध्रुवत्वादेव सदैव जीवादिषु पदार्थेषु प्रतिपादकत्वेन नियतं पञ्चास्तिकायेषु लोकवचनवत् नियतत्वादेव च शाश्वतं-शश्वद्भवनस्वभावंशाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि (पद्म) पुण्डरीकद्रह इव वाचनादिप्रदानेऽपि अक्षयं-नास्य क्षयोऽस्तीत्यक्षयमक्षयत्वादेव च अव्ययं मानुषोत्तराद्वहि: समुद्रवत्, अव्ययत्वादेव सदैव प्रमाणेऽवस्थितं जम्बूद्वीपादिवत्, एवं च सादऽवस्थानेन चिन्त्यमानं नित्यमाकाशवत्, साम्प्रतमत्रैव दृष्टान्तमाह_ 'से जहानामे'त्यादि, तद्यथानाम पञ्चास्तिकाया:-धर्मास्तिकायादयः न कदाचिन्नासन्नित्यादि पूर्ववत्, ‘एवमेवे'त्यादि निगमनं निगदसिद्ध, 'से समासओ' इत्यादि, तद्वादशाङ्ग समासतश्चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो 'ण'मिति वाक्यालङ्कारे श्रुतज्ञानी उपयुक्तः सर्वद्रव्याणि जानाति पश्यति, तत्राह- ननु पश्यतीति कथं ?, न हि श्रुतज्ञानी श्रुतज्ञानज्ञेयानि सकलानि वस्तूनि पश्यति, नैष दोषः, उपमाया अत्र विवक्षितत्वात्, पश्यतीव पश्यति, तथाहि-मेर्वादीन् पदार्थानदृष्टानप्याचार्यः शिष्यभ्य आलिख्य दर्शयति ततस्तेषां श्रोतृणामेवं बुद्धिरुपजायते भगवानेषगणी साक्षात्पश्यन्निव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy