________________
नन्दी - चूलिकासूत्रं
२३८
दृष्ट्व्या:, तथाहि - खपरसत्ताभावाभावात्मकं वस्तुत, यथा जीवो जीवात्मना भावरूपो अजीवात्मना चाभावरूपः, अन्यथाऽजीवत्वप्रसङ्गात्, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरव भयादिति, तथाऽनन्ता ' हेतवो' हिनोति गमयति जिज्ञासितधर्म्मविशिष्टमर्थमिति हेतु:, ते चानन्ता:, तथाहिवस्तुनोऽनन्ता धर्मास्ते च तत्प्रतिबद्धधर्मविशिष्टवस्तुगमकास्ततोऽनन्ता हेतवो भवन्ति यथोक्तहेतुप्रतिपक्षभूता अहेतवः, तेऽपि अनन्तां, तथा अनन्तानि कारणानि घटपटादीनां निर्वर्त्तकानि मृत्पिण्डतन्त्वादीनि, अनन्तान्यकारणानि, स्रवेषामपि कारणानां कार्यान्तराण्यधिकृत्याकारणत्वात्, तथा जीवा - प्राणिनः, अजीवा:- परमाणुद्व्यणुकादयः, , भव्या-अनादिपारिणामिकसिद्धिगमनयोग्यतायुक्ताः, तद्विपरिता अभव्याः, सिद्धा अपगतकर्ममलकलङ्कां, असिद्धाः संसारिणः, एते सर्वेऽप्यनन्ता: प्रज्ञप्ताः, इह भव्या भव्यानामानन्त्येऽभिहितेऽपि यत्पुनरसिद्धा अनन्ता इत्यभिहितं तत्सिद्धेभ्यः संसारिणामनन्तगुणताख्यापनार्थं ।
सम्प्रति द्वादशाङ्गविराधनाफलं त्रैकालिक-मुपदर्शयति
मू. ( १५७ ) इच्चेइअं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअहिंसु, इच्चेइअं दुवालसंगं गणिपिडगं पडुपन्नकाले परित्ता जीवा आनाए विराहित्ता चाउरंतं संसारकंतारं अनुपरिअद्वंति, इच्चेइअं दुवालसंगं गणिपिडगं अणागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार अनुपरिअद्विस्संति । इच्चेइयं दुवालसंगं गणिपिडगं तीए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीइवइंसु, इच्चेइअं दुवालसंगं गणिपिडगं पडुप्पन्नकाले परित्ता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीईवयंति, इच्चेइअं दुवालसंगं गणिपिडगं अनागए काले अनंता जीवा आणाए विराहित्ता चाउरंतं संसारकंतार वीईवइस्सति ।
इच्चेइअं दुवालसंगं गणिपिडगं न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे से जहानामए पंचत्थिकाए न कयाए नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे नियए सासए अक्खए अव्वए अवट्ठिए निच्चे, एवामेव दुवालसंगे गणिपिडगे न कयाइ नासी न कयाइ नत्थि न कयाइ न भविस्सइ भुनिं च भवइ अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे ।
से समासओ चउव्विहे पन्नत्ते, तंजहा- दव्वओ खित्तओ कालओ भावओ, तत्थ दव्वओ णं सुअनाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तओ नं सुअनाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ कालओ नं सुअनाणी उवउत्ते सव्वं कालं जाणइ पासइ भावओ नं सुअनाणी उवउत्ते सव्वे भावे जाणइ पासइ ।
वृ. 'इच्चेइय' मित्यादि, इत्येतद् द्वादशाङ्गं गणिपिटकमतीते कालेऽनन्ता जीवा आज्ञयायथोक्ताज्ञापरिपालनाऽभावतो विराध्य चतुरन्तं संसारकान्तारं विविधशारीरमानसानेकदुःखविटषिशतसहस्रदुस्तरं भवगहनं 'अनुपरियट्टिसु' अनुपरावृत्तवन्त आसन्, इह द्वादशाङ्गं सूत्रार्थोभयभेदेन त्रिविधं द्वादशाङ्गमेव चाऽऽज्ञा, आज्ञाप्यते जन्तुगणो हितप्रवृत्तौ यया साऽऽज्ञेतिव्युत्पत्तेः ततश्चाज्ञा त्रिविधा, तद्यथा - सूत्राज्ञा अर्थाज्ञा उभयाज्ञा च सम्प्रति अमूषामाज्ञानां विराधना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International