SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मूलं - १५४ एवमसंखेज्जाओ चित्तंतरगंडिया मुणेयव्वा । जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो || ३ || तथा 'अमरे' त्यादि, विविधेषु परिवर्त्तेषु भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतियग्निरयगतिगमनं, एवमादिका गण्डिका बहव आख्यायन्ते, 'सेत्तं गंडियाणुजोगे' सोऽयं गण्डिकानुयोगः । 'से किं त'मित्यादि, अथ कास्ताचलाः ?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, तथा चाह चूणिकृत - " दिट्टिवाए जं परिकम्मसुत्तपुव्वाणुयोगे न भणियं तं चूलासु भणियं" ति । २३७ अत्र सूरिराह - चूला आदिमानां चतुर्णां शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुर्णां पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः, आह च चूण्णिकृत् -"ता एव चूला आइल्लपुव्वाणं चउण्हं चुल्लवत्थूणि भणिता" एताश्च सर्वस्यापि दृष्टिवादस्योपरि किल स्थापितास्तथैव च पठ्यन्ते, ततः श्रुतपर्व्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा पोक्तं चूर्णिकृता - "सव्वुवरिट्ठिया पढिज्जंति, अतो तेसु य पव्वयचूला इव चूला" इति, तासां च चूलानामियं सङ्ख्या--प्रथमपूर्वसत्काश्चतस्रः द्वितीयपूर्वसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश तथा च पूर्वमुक्तं सूत्रे - "चत्तारि दुवालस अट्ठ चेव दस चेव चूलवत्थूणि । आइल्लाण चउण्हं सेसाणं चूलिया नत्थि ॥ सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत्, 'से त्तं चूलियं 'त्ति अथैताश्चलिकाः । 'दिट्ठिवायस्स न 'मित्यादि, पाठसिद्धं, नवरं 'सज्जा वत्थू'त्ति सङ्ख्येयानि वस्तूनि तानि पञ्चविंशत्युत्तरे द्वे शते, कथमिति चेत्, इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्द्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एखादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशच्चतुर्द्दशे पञ्चविंशति:, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं "दस चोद्दस अट्ठट्ठारसेव बारस दुवे य [ मूल] वत्थूणि । सोलस तीसा वीसा पनरस अनुप्पवामि ॥ बारस एक्कारसमे बारसमे तेरसेव वत्थूणि । तीसा पुण तेरसमे चोद्दसमे पनवीसा उ ॥ सर्वसङ्ख्या चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्ख्येयानि चूलावस्तूनि तानि च चतुस्त्रिशत्सङ्ख्याकानि । साम्प्रतमोघतो द्वादशाङ्गाभिधेयमुपदर्शयति मू. (१५५ ) इच्चेयंमि दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेउ अनंता कारणा अनंता अकारणाअनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिआ अनंता सिद्धा अनंता असिद्धा पन्नत्ता मू. ( १५६ ) 'भावमभावा हेऊमहेउ कारणमकारणे चेव । जीवाजीवा भविअमभविआ सिद्धा असिद्धाय ॥ वृ. इत्येतस्मिन् द्वादशाङ्गे गणिपिटके' एतत्पूर्वदेव व्याख्येयं, अनन्ता भावा - दीवादयः पदार्थाः प्रज्ञप्ता इति योग:, तथा अनन्ता अभावा:- सर्वभावानां पररूपेणासत्त्वात् त एवानन्ता अभावा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy