________________
२४०
नन्दी-चूलिकासूत्रं व्याचष्टे इति, एवं क्षेत्रादिष्वपि भावनीयं, ततो न कश्चिद्दोषः, अन्ये तु न पश्यतीति पठन्ति, तत्र चोद्यस्यानवकाश एव, श्रुतज्ञानी चेहाभिन्नदशपूर्वधरादि-श्रुतकेवली परिगृह्यते, तस्यैव नियमतः श्रुतज्ञानबलेन सर्वद्रव्यादिपरिज्ञानसम्भवात्, तदारस्तु ये श्रुतज्ञानिनस्त सर्वद्रव्यादिपरिज्ञाने भजनीयाः, केचित्सर्वद्रव्यादि जानन्ति केचिन्नेति भावः, इत्थम्भूता च भजना मतिनैचित्र्याद्वेदितव्या, आह च चूणिकृत्-"आरओ पुण जे सुयनाणी ते सव्वदव्वनाणपासणासु भइया, सा यमयणा मइविसेसओ जाणियव्वत्ति।" सम्प्रति सङ्ग्रहगाथामाहमू.(१५८) अक्खर सन्नी सम्मं साइअंखलु सपज्जवसिअंच।
गमिअं अंगपविटुं सत्तवि एए सपडिवक्खा। व.'अक्खरसन्नी'त्यादि, गतार्था, नवरं सप्ताप्येते पक्षां सप्रतिपक्षा, ते चैवम्-अक्षरश्रुतमनक्षरश्रुतमित्यादि, इदंच श्रुतज्ञानंसर्वातिशयरत्नकल्पं प्रायो गुर्बधीनंचततो विनेयजनानुग्रहार्थं यो यथा चास्य लाभस्तं तथा दर्शयतिमू.(१५९) आगमसत्थरगहणं जंबुद्धिगुणेहिं अट्ठहिं दिटुं।
बिंति सुअनाणलंभंतं पुव्वविसारया धीरा॥ वृ. आगमे'त्यादि, आ-अभिविधिना सकल श्रुतविषयव्याप्तिरूपेण मर्यादयावा यथावस्थितप्ररूपया गम्यन्ते-परिच्छिद्यन्तेऽर्था येन स आगमः, स चैवं व्युत्पत्त्या अवधिकेवलादिलक्षणोऽपि भवति ततस्तद्वयवच्छेदार्थं विशेषणान्तरमाह-'शास्त्रे'ति शिष्यतेऽनेनेति शास्त्रमागमरूपं शास्त्रमागमशास्त्र, आगमग्रहणेन षष्टितन्त्रादिकुशास्त्रव्यवच्छेदः,तो यथावस्थितार्थप्रकाशनाभावतोऽनागमत्वाद् आगमशास्त्रस्य ग्रहणं आगमशास्त्रस्यग्रहणं यद्बुद्धिगुणैर्वक्ष्यमाणैः कारणभूतेरष्टभिदृष्टं, तदेव ग्रहणं श्रुतज्ञानस्य लाभंब्रुवते पूर्वेषु विशारदा-विपश्चित: धीराःव्रतपरिपालने स्थिराः, किमुक्तं भवति?- यदेव जिनप्रणीतप्रवचनार्थपरिज्ञानं तदेव परमार्थतः श्रुतज्ञानं, न शेषमिति॥ बुद्धिगुणैरष्टभिरित्यक्तं, ततस्तानेव बुद्धिगुणानाहमू.(१६०) सुस्सूसइ १ पुडिपुच्छइ २ सुणेइ ३ गिण्हइ अ४ ईहए याऽवि
तत्तो अपोहए वा ६ धारेइ ७ करेइ वा सम्म८॥ वृ. 'सूस्सूसई'त्यादि, पूर्वं तावत् शुश्रूषते-विनययुक्तो गुरुवदनाराविन्दाद्विनिर्गच्छद्वचनं श्रोतुमिच्छति, यत्र शङ्कितं भवति तत्र भूयोऽपिविनयनम्रतयावचसा गुरुमनः प्रह्लादयन् पृच्छति, पृष्टेच सति यद्गुरुः कथयति तत्सम्यक्-व्याक्षेपपरिहारेण सावधानः शृणोति श्रुत्वा चार्थरूपतया गृह्णाति, गृहीत्वा च ईहतेपूर्वापराविरोधेन पर्यालोचयति, चशब्दः समुच्चायार्थः, अपिशब्दात्प(ब्द: प)र्यालोचयन् किञ्चित् खबुद्धाऽप्युत्प्रेक्षते इति सूचनार्थः, ततः पर्यालोचनाऽनन्तरमपोहते-एवमेतत् यदादिष्टमाचार्येण नान्यथेत्यवधारयति, ततस्तम)निश्चितं स्वचेतसि विस्मृत्यभावार्थं सम्यग् धारयति, करोति चसम्यग्-यथोक्तमनुष्ठानं, यथोक्तमनुष्ठानमपि श्रुतज्ञानप्राप्तिहेतुः तदावरणक्षयोपशमनिमित्तत्वात् । तदेवं गुणा व्याख्याताः, सम्प्रति यच्छुश्रूषते इत्युक्तं तत्र श्रवणविधिमाहमू.(१६१) मूअंहुंकारं वा बाढक्कार पडिपुच्छ वीमंसा।
तत्तो पसंगपारायणं च परिणि? सत्तमए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org