SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ मूलं - १४० २२१ 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इतिवचनात्, ततो ज्ञानादीनां ज्ञानाद्याधारणां च बहुश्रुतादिपुरुषाणां यो विनय ज्ञानादिबहुमानप्रतिपत्तिलक्षणः स ज्ञानादिसम्पदृद्धिहेतुत्वेन परम्परया मुक्त्यङ्गमुपजायते, यस्तु सुरनृपत्यादिषु विनयः स नियमात् संसारहेतुः, यतः सुरनृपत्यादिपु विनयो विधीयमानः सुरनृपत्यादिभावविषयं बहुमानमापादयति, अन्यथा विनयकरणाप्रवृत्तेः, सुरनृपत्यादिभावश्च भोगप्रधानः, तद्बहुमाने च भोगबहुमानमेव कृतं परमार्थतो भवतीति दीर्घसंसारपथप्रवृत्तिः, येऽपि च यतिविनयवादिनस्तेऽपि यदि साक्षाद्विनयमेव केवलं मुक्तङ्गमिच्छन्ति तर्हि तेऽप्यसमीचीनवादिनो वेदितव्याः, ज्ञानादिरहितस्य केवलस्य विनयस्य साक्षान्मुक्त्यङ्गत्वाभावात्, न खलु ज्ञानदर्शचारित्ररहिताः, केवलपादपतनादिविनयमात्रेण मुक्तिमार्गमश्नुवते जन्तवः, किन्तु ज्ञानादिसहिताः, ततो ज्ञानादिकमेव साक्षान्मुक्त्यङ्ग, न विनयः, कथमेतदवसीयते ?, इति चेदुच्यते, इह मिथ्यात्वाज्ञानाविरतिप्रत्ययं कर्म्मजालं, कर्मजालक्षवाच्च मोक्षः 'मुक्ति: कर्मक्षयादिष्टे'तिवचनप्रामाण्यात् कर्मजालक्षयश्च न निर्मूलकारणोच्छेदमन्तरेण सर्वथा सम्भवति, ततो मिथ्यात्वप्रतिपक्षं सम्यग्दर्शनमज्ञानप्रतिपक्षं च ज्ञानमविरतिप्रतिपक्षं च चारित्रं सम्यक् सेव्यमानं यदा प्रकर्षप्राप्तं भवति तदा सर्वथा कारणापगमतो निर्मलकम्र्म्मोच्छेदो भवतीति ज्ञानादिकं साक्षान्मुक्त्यङ्गं, न विनयमात्रं, केवलं विनयो ज्ञानादिषु विधीयमानः परम्परा मुक्त्यङ्ग साक्षात्तु ज्ञानादिहेतुरिति सर्वकल्याणभाजनं तत्र २ प्रदेशे गीयते, यदि पुनर्यतिविनयवादिनोऽपि ज्ञानादिवृद्धिहेतुतया मुक्त्यङ्गं विनियमिच्छन्ति तदा तेऽप्यस्मत्पथवर्त्तिन एंवेति न कदा (का)चिद्विप्रतिपत्तिरिति कृतं प्रसङ्गेन, प्रकृतमनुसन्धीयते । 'सूयगडस्स णं परित्ता' इत्यादि सर्वं प्राग्वत्, उद्देशानां च परिमाणं कृत्वा उद्देशसमुद्देशकाला-. सङ्ख्या भावनीया, 'सेत्तं सूयगडे' तदेतत्सूत्रकृतं ॥ मू. ( १४१ ) से किं तं ठाणे ?, ठाने नं जीवा ठाविज्जति, अजीवा ठाविज्जंति, ससमए ठाविज्जइ परसमए ठाविज्जइ ससमयपरसमए ठाविज्जइ लोए ठाविज्जइ अलोए ठाविज्जइ लोआलोए ठाविज्जइ, ठाणे नं टंका कूडा सेला सिहरिणो पब्भारा कुंडाई गुहाओ आगरा दहा नईओ आघविज्जाओ निज्जुत्तीओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ, से णं अंगट्टयाए तइए अंगे एगे सुअक्खंधे, दस अज्झयणा एगवीसं उद्देसणकाला एक्कवीसं समुद्देसणकाला बावत्तरि पयहस्सा पयग्गेणं संखेज्जा अक्खरा अनंता गमा अनंता पज्जवा परित्ता तसा अनंता थावरा सासयकडनिबद्धनिकाइआ जिनपन्नत्ता भावा आघविज्जंति पन्नविज्जंति परूविज्जंति दंसिज्जति निदंसिज्जति उवदंसिज्जति, से एवं आया एवं नाया एवं विष्णाया एवं चरणकरणपरूवणा आघविज्जइ, से तं ठाणे ॥ वृ. 'से किं तमित्यादि, अथ किं तत्स्थानं ?, तिष्ठन्ति प्रतिपाद्यतया जीवदयः, पदार्था अस्मिन्निति स्थानं, तथा चाह सूरिः - 'ठाणे न 'मित्यादि, स्थानेन स्थाने वा 'ण'मिति वाक्यालङ्कारे, जीवा: स्थाप्यन्ते - यथाऽवस्थितस्वरूपप्ररूपणा व्यवस्थाप्यन्ते, शेषं प्रायो निगदसिद्धं, नवरं ‘टंक’त्ति छिन्नतटं टङ्क, कूटानि पर्वतस्योपरि, यथा वैताढ्यस्योपरि सिद्धायतनकूटादीनि नव कूटानि, शैला हिमवदादयः, शिखरिणः- शिखरेण समन्विताः, ते च वैताढ्यदयः तथा यत्कूटमुपरि कुब्जाग्रवत् कुब्जं तत्प्राग्भारं यद्वा यत्पर्वतस्योपरि हस्तिकुम्भाकृति कुब्जं विनर्गतं तत्प्राग्भारं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy