________________
नन्दी - चूलिकासूत्रं
२२०
ज्ञानं प्रतिपन्नाः तथापि यद्वचो दृष्टेष्टबाधितं पूर्वापराव्याहतं च तत्सम्यग्रूपमवसेयं, तादृग्भूतं च वचो भगवत्प्रणीतमेवेति तदेव प्रमाणं न शेषमिति, यदप्युक्तुं 'सुगतादयोऽपि सौगतादिभिः सर्वज्ञा इष्यन्ते' इत्यादि, तदप्यसत्, दृष्टेष्टबाधितवचनतया सुगतादीनामसर्वज्ञत्वात्, यथा च दृष्टेष्टबाधितवचनता सुगतादीनां तथा प्रागेव सर्वज्ञसिद्धौ लेशतो दर्शिता, ततो भगवानेय सर्वज्ञः, उक्तं च
"सव्वण्णुविहाणंमिवि दिट्ठिट्ठाबाहियाउ वयणाओ । सवणू होइ जिन सेसा सव्वे असव्वण्णू ।।"
एतेन यदुक्तं, 'भवतु वा वर्द्धमानस्वामी सर्वज्ञस्तथापि तस्य सत्कोऽयमाचारादिक उपदेश इति कथं प्रतीयते ?' इति, तदपि दूरापास्तं, अन्यस्येत्थम्भूतदृष्टेष्टाबाधितवचनप्रवृत्तेरसम्भवात्, यदप्युक्तं- 'भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानस्वामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यं प्रत्येतु' मित्यादि, तदप्युक्तुं, भगवान् हि वीतरागस्ततो न विप्रतारयति, विप्रतारणाहेतुरागादिदोषगणासम्भवात्, तथा सर्वज्ञत्वेन विपरीतं सम्यग् वाऽर्थमवबुध्यमानं शिष्यं जानाति ततो यदि विपरीतमर्थमवबुध्यते श्रोता तर्हि निवारयेत्, न च निवारयति, न च विप्रातरयति, करोति च देशानां कृतकृत्योऽपि तीर्थकरनामकर्मोदयात्, ततो ज्ञायते एष एवास्योपदेशस्यार्थ इति, उक्तं च
"नाएऽपि तदुवएसे एंसेवत्थो मउत्ति से एवं । ज्जइ पवत्तमाणं जं ज निवारेइ तह चेव ॥ १ ॥ अन्नह य पवत्तंतं निवारई न य तओ पवंचेई । म्हास वीरागो कहणे पुण कारणं कम्मं ॥२॥ "
एवं च भगवद्विवक्षायाः परोक्षत्वेऽपि सम्यगुपदेशस्यार्थनिश्चये जाते यदुक्तं-- 'गौतमादिरपि छद्मस्थ' इत्यादि, तदप्यसारमवसेयं, छद्मस्थस्वाप्युक्तप्रकारेण भगवदेपदेशार्थनिश्चयोपपत्तेः, तथा चित्रार्था अपि शब्दा भगवतैव समयिताः, ते च प्रकरणाद्यनुरोधेन तत्तदर्थप्रतिपादकाः प्रतिपादितास्ततो न कश्चिद्दोषः, तत्प्रकरणाद्यनुरोधेन तत्तदर्थनिश्चयोपपत्तेः, भगवताऽपि च तथा तथाऽर्थावगमे प्रतिषेधाकरणादिति, एवं च तदानीं गौतमादीनां सम्यगुपदेशार्थस्यावगतावाचार्यपरम्परात इदानीमपि तदर्थावगमो भवति, न चाचार्यपरम्परा न प्रमाणं, अविपरीतार्थव्याख्यातृत्वेन तस्याः प्रामाण्यस्यापाकर्तुमशक्यत्वात्, अपिच-भवद्दर्शनमपि किमागममूलमनागममूलं वा?, यद्यागममूलं तर्हि कथमाचार्यपरम्परामन्तरेण ?, आगमार्थस्वावबोद्धुमशक्यत्वात्, अथानागममूलं तर्हि न प्रमाणं, उन्मत्तकविरचितदर्शनवत्, अथ यद्यपि नागममूलं तथापि युक्त्युपपन्नमितिकृत्वा समाश्रीयते, अहो ! दुरन्तः स्वदर्शनानुरागो य एवमपि पूर्वापरविरुद्धं भाषयति, अथवा भूषणमेतदज्ञानपक्षाभ्युपगमस्य यदित्थं पूर्वापरविरुद्धार्थभाषणं, कथं पूर्वापरविरुद्धाथभाषितेति चेत् ?, उच्च्यते, युक्तयो हि ज्ञानमूला भवतां चाज्ञानाभ्येपगमः ततः कथं तास्तत्र घटन्ते ? इति पूर्वापरविरुद्धाथभाषितेति यत्किञ्चिदेतद् ।
येऽपि च विनयवादिनो विनयप्रतिपत्तिलक्षणास्तेऽपि मोहान्मुक्तिपथपरिभ्रष्टाः वेदितव्याः, तथाहि-- विनयो नाम मुक्त्यङ्गं यो मुक्तिपथानुकूलो न शेषः, मुक्तिपथश्चज्ञानदर्शनचारित्राणि,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org