________________
मूलं - १४०
कस्यापि प्रभवति, अज्ञानत्वादेव, ततोऽप्रतिपेधादपि सिद्धं ज्ञानं श्रेयः, आहच
" नाणनिसेहणहेऊ नाणं इयरं व होज्ज ? जइ नाणं । अब्भुवगमम्मि तस्या कहं नु अन्नाणमो सेयं ? ॥ १ ॥ अह अन्नाणं न तयं नाणनिसेहणसमत्थमेवंपि । अप्पिडिसेहाउ च्चिय संसिद्धं नाणमेवन्ति ॥ २ ॥"
यदप्युक्तं- 'ज्ञाने सति परस्परं विवादयोगश्चित्तकालुष्यादिभाव' इति, तदप्यपरिभावित भाषितं, इह हि ज्ञानी परमार्थत: स एवोच्यते यो विवेकपूतात्मा ज्ञानगर्वमात्मानि सर्वथा न विधत्ते यस्तु ज्ञानलवमासाद्याकण्डपीतासब इवोन्मत्तः सकलमपि जगत्तृणायो मन्यते स परमार्थेनाज्ञानी वेदितव्यो, ज्ञानफलाभावात्, ज्ञानफलं हि रागादिदोषगणनिरासः, स चेन्न भवति तेर्हिन परमार्थतस्तत् ज्ञानं, उक्तं च
" तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकर किरणाग्रतः स्थातुम् ? ॥"
तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकारार्थमाधत्ते, न यथाकञ्चित्, तमपि च वादं वादनिरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरेरनुज्ञानात्, उक्तं च
"वादो ऽपि वाइनरवइपरिच्छगजणेसु निउणबुद्धीस । मज्झत्थेसु य विहिणा उस्सग्गेणं अणुन्नाओ।'
तत एवं स्थिते कथं नु नाम चित्तकालुष्यभावो ? यद्वशात् तीव्रतीव्रतरकर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः ।
यत्पुनरुच्यते- 'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भवती 'ति तदभ्युपगम्यते एव, न च तीव्रोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवल ज्ञाने सति यदि कथञ्चित्कर्म्मदोषतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीव्र: परिणामो भवति, तथाहि यथा कञ्चित्पुरुषो राजादिदुष्टनियोगतो विषमिश्रमन्नं जानानोऽपि भयभीतमानसो भुंक्ते तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरन्नपि संसारदुःखभयभीतमानसः समाचरति, न निःशङ्क, संसारभयभीतता च संवेग उच्यते, ततः संवेगशान्न तीव्रः परिणामो भवति, उक्तं च
--
Jain Education International
11
"जाणतो सविसरणं पवत्तमाणोऽवि बीहए जह उ न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो ॥ १ ॥ जं संवेगहाणो अच्चंत सुहो य होइ परिणामो । पावनिवित्तीय परा नेयं अन्नाणिणो उभयं ॥२॥
२१९
ततो यदुक्तम्-‘अज्ञानमेव मुमुक्षुणा मुक्तिपथप्रवृत्तेनाभ्युपगन्तव्यं, न ज्ञान' मिति, तत्तेषां मूढमनस्कतासूचकमवगन्तव्यं, यदत्युक्तं-' भवेत् युक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्त्तु पार्यते' इत्यादि, तदपि बालिशजल्पितं यतो यद्यपि सर्वेऽपि दर्शननिः परस्परं भिन्नमेव
For Private & Personal Use Only
,
www.jainelibrary.org