________________
२१८
नन्दी-चूलिकासूत्रं कारणगतो वा?, न तावत्कार्यगतो, यतः कार्य परिनिष्पन्ने सति स कार्यगतः स्वभावो भविष्यति, नानिष्पन्ने, निष्पन्ने च कार्ये कथं स तस्य हेतुः? यो हि यस्यालब्धलाभसम्पादनाय प्रभवति स तस्य हेतुः, कार्यं च परिनिष्पन्नतया लब्धात्मलाभं, अन्यथा तस्यैव स्वभावस्या भावप्रसङ्गात्, ततः कथं च कार्यस्य हेतुर्भवति?, कारणगतस्तु स्वभावः कार्यस्य हेतुरस्माकमपि सम्मतः, स च प्रतिकारणं विभिन्नस्तेन मदः कुम्भो भवति न पटादिः, मुदः पटादिकरणस्वभावाभावात, तन्तुभ्योऽपि पट एव भवति न घटादिः, तन्तूनां घटादिकरणे स्वभावाभावात्, ततो यदुच्यते'मृदः कुम्भो भवति न पटादि'रित्यादि तत्सर्वं कारणगतस्वभावाभ्युपगमे सिद्धसाध्यतामध्यमध्यासीनमिति न नो बाधामादधाति, यदपि चोक्तम्-'आस्तामन्यत्वार्यजात'मित्यादि, तदपि कारणगतस्वभावाङ्गीकारेण समीचीनमेवावसेयं, तथाहि-ते कङ्कटुकमुद्गाः स्वकारण-वशतस्तथारूपा एव जातो ये स्थालीन्धनकालादिसामग्रीसम्पर्के ऽपि न पाकमश्नुवते इति, स्वभावश्च कारणादिभिन्न इति सर्व सकारणमेवेति स्थितम्, उक्तं च -
"कारणगओ उहेऊ केन व निट्ठोत्ति निययकज्जस्स?।
नयसो तओ विभिन्नो सकारणं सव्वमेव तओ।। यदपि च यदृच्छावादिनः प्रलपन्ति-'न खलु प्रतिनियतो वस्तूनां कार्यकारणभाव' इत्यादि तदपि च कार्याकार्यादिविवेचनपटीया:शेमुषीविकलतासूचकमवगन्तव्यं, कार्यकारणभावस्य प्रतिनियततया सम्भवात्, तथाहि-यः शालूकांदुपजायते शालूक: ससदैवशालूकादेव नगोमयादपि, योऽपि च गोमयादुपजायते शालूक: सोऽपि सदैव गोमयादेव नशालूकादपि, नचानयोरेकरूपता, शक्तिवर्णादिवैचित्र्यतः परस्परंजात्यन्तरत्वात्, योऽपि च वरुपजायते वह्निः सोऽपि सदैव वढेरेव नारणिकाष्टादपि, योऽपि चारणिकाष्ठादुपजायते सोऽपि सर्वदाऽरण-काष्ठादेव न वढेरपि, यदपि चोक्तं-'बीजादपिजायते कदली'त्यादि, तत्रापि परस्परंविभिन्नत्वात् एतदेवोत्तरम्, अपिच-या कन्दादुपजायते कदली साऽपि परमार्थतो बीजादेव वेदितव्या, परम्परया बीजस्यैव कारणत्वात्, एवं वटादयोऽपिशाखैकदेशादुपजायमानाः परमार्थतो बीजादवगन्तव्याः, तथाहिशाखात: शाखा प्रभवति, नच शाखा शाखाहेतुका लोके व्यवहियते, बटबीजस्यैव सकलशाखादिसमुदायरूपवटहेतुत्वेन प्रसिद्धत्वात्, एवं शाखैकदेशादपि जायमानो वट: परमार्थतो मूलवटप्रशाखारूप इति मूलवटबीजहेतुक एव सोऽपि वेदितव्यः, तस्मान्न क्वचिदपि कारण-कार्यव्यभिचार:, निपुणविचारप्रवीणेन च प्रतिपत्रा भवितव्यं, ततो न कश्चिद्दोषः, एवं च यदुच्यते'न खल्यन्यथा वस्तुसद्भावं पश्यन्तोऽन्यथाऽऽत्मानं प्रेक्षावन्तः परिल्केशयन्ती'ति, तद्वाङ्मात्रमिति स्थितं,
येऽपि चाज्ञानवादिनो 'न ज्ञानं श्रेयः, तस्मिन् सति परस्परविवादयोगतश्चित्तकालुष्यादिभावतो दीर्घतरसंसारप्रवृत्ते'रित्याधुक्तवन्त: तेऽप्यज्ञानमहानिद्रोप्लुतमनस्कतया यत्किञ्चिद्भाषितवन्तो वेदितव्याः, तथाहि-आस्तमामन्यद् एतावदेव वयं पृच्छामः-ज्ञाननिषेधकं ज्ञानं वा स्यादज्ञानं वा?, तत्र यदि ज्ञानं ततः कथमभाषिष्ट-अज्ञानमेव श्रेयो?, नन्वेवं ज्ञानं श्रेयस्तामाचनीस्कन्द्यते, तदन्तरेणाज्ञानस्य प्रतिष्ठापयितुमशक्यत्वात्, तथा च प्रतिज्ञाव्याघातप्रसङ्गः, अथाज्ञानमिति पक्षः सोऽप्युयक्तः, अज्ञानस्य ज्ञाननिषेधनसामर्थ्यायोगात्, न खलु अज्ञानं साधनाय वाधनाय वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org