SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ मूलं-१४० २१७ स्यादमूर्त वा?, यदि मूर्तं ती नामान्तरेण कम्मैव प्रतिपन्न, यस्मात्तदपि कर्म पुद्गलरूपत्वात् मूर्तमनेकं चास्माकमभिप्रेतं, भवताऽपि च नियतिरूपं तत्त्वान्तरमनेकं मूर्तं चाभ्युपगम्यते इत्यावयोरविप्रतिपत्तिः, अथामूर्तमित्यभ्युपगमस्तहिन तत्सुखदुःखनिबन्धनम्, अमूर्त्तत्वात्, न खल्वाकाशममूर्तमनुग्रहायोपघाताय वा जायते, पुद्गलानामेवानुग्रहोपघातविधानसमर्थत्वात्, "जमणुगगहोवघाया जीवाणं पुग्गलेहितो" इति वचनात्, अथ मन्येथाः-दृष्टमाकाशमपि देशभेदेन सुखदुःखनिबन्धनं, तथाहि-मरुस्थलीप्रभृतिषु देशेषुदुखं शेषेषुतु सुखमिति, तदप्यसत्, तत्रापि तदाकाशस्थितानामेव पुद्गलानामनुग्रहोपघातकारित्वात्, तथाहि-मरुस्थलीप्रायासु भूमिषु जलविकलतया न तथाविधा धान्यसम्पत्, बालुकाकुलतया चाध्वनि प्राणिनां गमनागमनविधावतिशायी पदे २ खेदो निदाघे च खरकिरणतीव्रकरनिकरसम्पर्कतो भूयान् सन्तापो जलाभ्यवहरणमपि स्वल्पीयो महाप्रयत्नसम्पाद्यं चेति महत्तत्र दुःखं, शेपे, तद्विपर्ययात्सुखमिति तत्रापि पुद्गलानामनुग्रहोपघातकारित्वं नाकाशस्येति, अथाभावरूपमिति पक्षस्यदप्ययुक्तं, अभावस्य तुच्छरूपतया सकलशक्त्ययोगतः कार्यकारित्वायोगात्, नहि कटककुण्डलाद्यभावतः कटककुण्डलायुपजायते, तथादर्शनाभावात्, अन्यथा तत एव कटककुण्डलाद्युत्पत्तेविश्वस्यादरिद्रताप्रसङ्गः, नन्विह घटाभावो मृत्पिण्डएव तस्माच्चोपजायमानो दृश्यते घटस्ततः किमिहायुक्तं?, नखलु मृत्पिण्डस्तुच्छरूपः, स्वरूपभावात, ततः कथमिव तस्य हेतुता नोपपत्तिमर्हति?, तदप्यसमीचीनं, यतो न य एव मृत्पिण्डस्य स्वरूपभावः स एवाभावो भवितुमर्हति, भावोभावविरोधात्, तथाहि यदि भावः कथमभावः? अथाभावः कथं भाव इति?, अथोच्यत-स्वरूपापेक्षया भावरूपता पररूपापेक्षया चाभावरूपता ततो भावाभावयोभिन्ननिमित्तवत्वान्न कश्चिद्दोष इथि, नन्वेवं मृत्पिण्डस्य भावाभावात्मकत्वाभ्युपगमेऽनेकान्तात्मकमभिमन्यन्ते न भवादृशा एकान्तग्रहग्रस्तमनसः, स्यादेतत्-परिकल्पितस्तत्र पररूपाभावः स्वरूपभावस्तु तात्त्विकः ततो नानेकान्तात्मकत्वप्रसङ्गे इति, यद्येवंतहि कथं ततो मृत्पिण्डाद्घटभावः?, तत्र परमार्थतो घटप्रागभावस्याभावात्, यदि पुनः प्रागभावाभावेऽपि ततो घटो भवेत् तर्हि सूत्रपिण्डादेरपि कस्मान्न भवति?, प्रागभावाभावाविशेषात्, कथं वा ततो नखरविपाणमिति यत्किञ्चिदेतत्, यदप्युक्तं-यद्यदा यतो भवति कालान्तरेऽपि तत्तदा तत एव नियतेनैव रूपेण भवदुपलभ्यते इति, तदप्ययुक्तमेव, कारणसामग्रीशक्तिनियमत: कार्यस्य तदा तत एव तेनैव रूपेण भावसम्भवात्, ततो यदुक्तं- 'अन्यथा कार्यकारणभावव्यवस्था प्रतिनियतरूपव्यवस्था च न भवेत्, नियामकाभावादि'ति तद्विहिः प्लवते, कारणशक्तिरूपस्य नियामकस्य भावात्, एवं च कारणशक्तिनैयत्यत: कार्यस्य नैयत्ये कथं प्रेक्षावान् प्रमाणपथकुशलः प्रमाणोपपन्नयुक्तिवाधितां नियतिमङ्गीकुरुते?, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, __एतेन यदाहुः स्वभाववादिनः-'इह सर्वे भावाः स्वभाववशादुपजायन्ते' इति, तदपि प्रतिक्षिप्तमवगन्तव्यं, उक्तरूपाणां प्रायस्तत्रापि समानत्वात्, तथाहि-स्वभावो भावरूपो वा स्यादभावरूपो वा?, भावरूपोऽप्येकरूपोऽनेकरूपो वेत्यादि सर्वं तदवस्थमेवात्रापि दूषणजालमुपढौकते, अपिच-य: स्वो भावः स्वभावः, आत्मीयो भाव इत्यर्थः, सच कार्यगतो वा हेतुर्भवेत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy