SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २१६ नन्दी - चूलिकासूत्रं बाधनादिति यत्किञ्चिदेतत् । यदपि च नियतिवादिन उक्तवन्तो-नियतिर्नाम तत्त्वान्तरमस्तीति, तदपि तायमानाऽतिजीर्णघट इव विचारताडनमसहमानं शतशो विशरारुभावमाभजते, तथाहि तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा ?, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा ?, यद्येकरूपं ततस्तदपि नित्यमनित्यं वा ?, यदि नित्यं कथं भावानां हेतुः ?, नित्यस्य कारणत्वायोगात्, तथाहि-नित्यमाकालमेकरूपमुपवर्ण्यते, अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया नित्यत्वस्य व्यावर्णनात्, ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत्, विशेषाभावात्, न च सर्वदा तेन रूपेण जनयति, कचित्कदाचित्तस्य भावस्य दर्शनात्, अपिच-यानि द्वितीयादिषु क्षणेषु कर्त्तव्यानि कार्याणि तान्यापि प्रथमसमय एवोत्पादयेत्, तत्कारणस्वभावस्य तदानीमपि विद्यमानत्वात्, मा वा द्वितीयादिष्वपि क्षणेषु, विशेषाभावात्, विशेषे वा बलादनित्यत्वं, 'अतादवस्थ्यमनित्यतां ब्रूम' इति वचनप्रामाण्यात्, अथाविशिष्टमपि नित्यं तं तं सहकारिणमपेक्ष्य कार्यं विधत्ते, सहकारिश्च प्रतिनियतदेशकालभाविनः, ततः सहकारिभावाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीनं, यतः सहकारिणोऽपि नियतिसम्पाद्याः, नियतिश्च प्रथमक्षणेऽपि तत्करणस्वभावा, द्वितीयादिषु क्षणेषु तत्वकरणस्वभावताऽभ्युपगमे नित्यत्वक्षितिप्रसङ्गात्, ततः प्रथमेऽपि क्षणे सर्वसहकारिणां सम्भवात् सकलकार्यकरणप्रसङ्ग, अपिच-सहकारिषु सत्सु भवति कार्यं तदभावे च न भवति ततः सहकारिणामेवान्यवव्यतिरेकदर्शनात् कारणता परिकल्पनीया न नियतेः, तत्र व्यतिरेकासम्भवात्, उक्तं च "हेतुताऽन्वयपूर्वेण व्यतिरेकेण सिध्यति । नित्यस्याव्यतिरेकस्य, कुतो हेतुत्वसम्भवः ? ॥" अथैतद्दोषभयादनित्यमिति पक्षाश्रयणं तर्हि तस्य प्रतिक्षणमन्यान्यरूपतया भवनं ततो बहुत्वभावादेकरूपमिति प्रतिज्ञाव्याघातप्रसङ्गः, न च क्षणक्षयित्वे कार्यकारणभाव इति प्रागेवोपपादितम् । अन्यच्च यदि नियतिरेकरूपा ततस्तन्निबन्धननिखिलकार्याणामेकरूपताप्रसङ्गः, न हि कारणभेदमन्तरेण कार्यस्य भेदो भवितुमर्हति, तस्य निर्हेतुकत्वप्रसक्तेः, अथानेकरूपमिति पक्षा, ननु साऽनेकरूपता न तदन्यनानारूपविशेषणमन्तरेणोपपद्यते, न खलु ऊपरेतरादिधराभेदमन्तरेण विहायसः पततामम्भसामनेकरूपता भवति 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते 'ति वचनप्रामाण्यात्, ततोऽवश्यं तदन्यानि नानारूपाणि विशेषणानि नियतेर्भेदकान्यभ्युपगन्तव्यानि तेषां च नानारूपाणां विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यतः ?, यदि नियतेस्यस्या: स्वत एकरूपत्वात्कथं तन्निबन्धनानां विशेषणानां नानारूपता ?, अथ विचित्रकार्यान्यथाऽ TSनुपपत्त्या सा विचित्ररूपाऽभ्युपगम्यते, ननु सा विचित्ररूपता विशेषणबाहुल्यसम्पर्कमन्तरेण न घटयमञ्चति, ततस्तत्रापि विशेषणबाहुल्यमभ्युपगन्तव्यं, तेषामपि विशेषणानां भावः किं तत एव नियतेर्भवेदुतान्यत इत्यादि तदेवावर्त्तते इत्यनवस्था, अथान्यत इति पक्षः, तदप्युक्तं, नियतिव्यतिरेकेणान्यस्य हेतुत्वेनानभ्युपगमादिति यत्किञ्चिदेतत्, किंच अनेकरूपमिति पक्षाभ्युपगमे भवतः प्रतिपन्थि विकल्पयुगलमुपढौकते-तद्धि मूर्तं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy